Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 54
________________ वैशेषिकसूत्रवृत्तिः किञ्चिद्रव्याश्रितः, तदनाश्रितत्वे सति गुणत्वात् । यो यदनाश्रितो गुणः सः तदतिरिक्तकिञ्चिद्रव्याश्रितः यथा जलाधनाश्रितो गुणो गन्धः पृथिव्याश्रितः । यत् तत् अतिरिक्तं द्रव्यं स आकाश इति । अत्र "वायुसन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते'' इत्यादि सूत्रपञ्चकं वायुपदस्थाने आकाशपदं प्रक्षिप्यानुसन्धेयम् । प्रपूर्वसूत्रे "शब्दः स्पर्शवतामगुणः” इत्युक्तम् । “नात्मगुणो न मनोगुणः” इत्यनन्तर सूत्र इव न स्पर्शवद्गुणः इत्येव वक्तुं युक्तम् । तथापि 'स्पर्शवद्गुणभिन्नः आत्मगुणभिन्नश्च शब्दः परिशेषाल्लिङ्गमाकाशस्य” इति सूत्रत्रयमेकवाक्यतया योजनीयमिति ज्ञापयन् महर्षिः अनेनैव प्रकारेण आकाशसाधनं सुशकमिति तत्र स्वनिर्भरत्वं प्रकाशयति । ७७. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥२८॥ तस्य आकाशस्य द्रव्यत्वं नित्यत्वं च वायुना वायोः द्रव्यत्वनित्यत्वसाधको यो हेतुरुक्तः तेनेत्यर्थः । व्याख्याते निरूपिते भवत इत्यर्थः । शब्दस्य संयोगादीनां गुणान्तराणां च आश्रयत्वं सिद्धयति । वायुपरमाणुवत् अद्रव्यत्वेन नित्यत्वं सिद्धयति । नहि आकाशस्य आरम्भकं समवायिकारणभूतं द्रव्यमस्ति। मानाभावात् । अतः सः अद्रव्यः । अतः कार्यत्वाभावात् नित्यत्वम् । ७८. तत्त्वं भावेन ॥२६॥ तस्य भावः तत्त्वम् । एवं अभेदस्य एकत्वस्य च प्राचां व्यवहारः । प्रकृते एकत्वं विवक्षितम् । आकाशः एकः कथम् । तद् भावेन सतासामान्येन व्याख्यातम् । यया युक्तया सत्ताया एकत्वं साधितं तयैव युक्तया आकाशस्य एकत्वं सिद्धयतीत्यर्थः । तां युक्ति प्रकृतानुगुण्येन ऊहित्वा स्वयमेव दर्शयति । ७६. शब्दलिङ्गाविशेषात् विशेषलिङ्गामावाच्च ॥३०॥ शब्दः सर्वत्र उपलभ्यते । अतस्तदाश्रयेण आकाशेनापि सर्वत्र वर्तितव्यम् । न च उत्तरस्यां दिशि अन्य आकाशः दक्षिणस्यामन्य इति नानात्वग्राहकं विशेषलिङ्गमस्ति । तस्मात् सत्तावत् आकाश एक एव । इदं सूत्रं कैश्चिन्न पठयत इत्याहुः ।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154