Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 53
________________ भेरीताडने तत्र, समुद्रघोषे सति जले, दवानलदह्यमानवेणुस्फोटे अग्नी, वेणुवादने वायौ च शब्दप्रतीतेः तेषामन्यतमस्य गुणो भवितुमर्हति शब्द इति मतिः सहजेन जायेत । सा सूत्रद्वयेन निवतिता । कालस् : दिशो वा गुणः स्यादिति शङ्क'या नास्त्यवसरः । इदानीं शब्दः इति प्रतीतिस्तावत् इदानीं घटः अत्र घटः, इदानीं रूपं अत्र रूपं इत्यादिसर्वपदार्थान्तरविषयप्रतीत्यविशिष्टत्वात् कालिकदैशिकसम्बन्धेन शब्दवत्तां गोचरयति । न तु समवायेन । न च समवायेन तयोस्तद्वत्त्वशङ्काजनकं हेत्वन्तरं किमप्यस्ति । अतः तद्गुणत्वनिषेधोऽनपेक्षित इति मत्वा चरमद्रव्यद्वयगुरगत्वं निषेधति । ७५. परन समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः ।।२।। परत्र आत्मा यत्र अहमिति प्रतीयते शरीरप्रदेशेऽन्तः ततोऽन्यत्र । बहिर्देश इत्यर्थः । तत्र समवायात् विद्यमानत्वात् । “अयं शब्द:" "अत्र शब्दः" इति बहिर्देशसम्बन्धितयैव हि स प्रतीयते । अतः स तत्रैव वर्तते । न त्वात्मनि । अहं शब्दी मयि शब्द इति प्रतीतिविरहात् । अतो नात्मगुणः । मनोगुणोऽपि स न भवति । प्रत्यक्षत्वात् । मनो ह्यणु । तवृत्तिश्चेत् शब्दः कथं प्रत्यक्षः स्यात् । प्रत्यक्षश्च सः । नहि परमाणुवृत्ति रूपादिकं प्रत्यक्षम् । यद्यपि शब्दः आत्मनो मनसो वा गुण इति शङ्काया नैव कश्चन हेतुरस्ति तथाऽपि वक्ष्यमाणपरिशेषसिद्धय यदि कश्चित् वयात्यादेव तथा ब्रूयात् तन्निरसनोपयुक्तप्रबलहेतुकथनाय च इदमुक्तमिति ज्ञ यम् । यद्यप्यनेन न्यायेन दिक्कालगुणत्वनिषेधोऽपि कण्ठोक्तया कर्तुं युक्तः तथाऽपि चरमनिर्दिष्टद्रव्यद्वयगुणत्वनिषेधे कृते ततः प्रानिर्दिष्टद्रव्यगुणत्वनिषेधोऽपि स्वाभिमत इति, तत्र हेतोः सुगमत्वधिया स्वेन कण्ठोक्तिनं कृतेति च श्रोतारो भोत्स्यन्त इति महषिर्मन्यत इति मन्यामहे । ७६. परिशेषाल्लिङ्गमाकाशस्य ॥२७॥ शब्द इत्यनुषङ्गाल्लभ्यते । शब्दः आकाशस्य लिङ्गम् । ज्ञापकम् । कथम् । परिशेषात् । अन्येषां अष्टानां द्रव्याणां तेन तेन हेतुना वर्जनानन्तरं कल्पनीयस्य अस्य एकास्वैव तदाश्रयत्वाहतया शिष्यमाणत्वात् । शब्दः पृथिव्यादिद्रव्याष्टंकव्यतिरिक्त

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154