Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 51
________________ ३२ तत् उक्त निष्क्रमणं प्रवेशनं च अलिङ्ग दुष्टं लिङ्गम् । आकाशसाधनाक्षममित्यर्थः । कुतः । कर्मणः एकद्रव्यत्वात् । एकमेव द्रव्यं समवायिकारणतया आश्रयभूतं यस्य तत्त्वात् । कर्म निष्क्रमणादिरूपं एकस्मिन्नेव द्रव्ये समवैति । न संयोगादिवत् द्रव्यद्वये । तत्र यः पुरुषः निष्क्रामति प्रविशति च तस्मिन् तत्कर्म वर्तत इति सर्वसम्मतं, दरपह्नवम् । तथा सति तदाश्रयतया द्रव्यान्तरापेक्षा नैवास्ति । कथं द्रव्यान्तरं सिद्ध घत् । ननु आश्रयतया द्रव्यान्तरापेक्षा नास्तीति सत्यमेतत् । तथाऽपि निमित्तकारणतया तदपेक्षाऽस्त्येव । पृथिव्यादीनि द्रव्याणि अवकाशं न ददति । तेन निष्क्रमणादिकं न जायते । अतः अवकाशदानक्षम द्रव्यान्तरमपेक्ष्यते । तदाकाशमिति भवत्येव निष्क्रमणादिकमाकाशस्य लिङ्गमित्यत्राह ७१. कारणानुक्लुप्तिवैधाच्च ।।२२।। कारणस्य अनुक्लृप्तिः अवधारणम् तस्य वैधात् विरुद्धधर्मवत्त्वात् । इदं कारणमित्यवधारणे अनुकूलः नियामकः धर्मः अन्वयव्य तिरेकवत्त्वम् । अस्मिन् सति कायं भवति । असति न भवतीति ! निष्क्रमणादिकं प्रति आकाशस्य तन्नास्ति । आकाशस्य अवर्जनीयतया सन्निधिः । न तु कार्यनिष्पत्तये अपेक्षितत्वात् । अतोऽन्वयोनास्ति । आकाशस्य विभुत्वेन नित्यत्वाच्च क्वचिदपि कदाचिदपि तदभावो नास्तीति व्यतिरेकोऽपि नास्ति । एवं कारणत्वावधारणोपयुक्त यत् अन्वयव्यतिरेकवत्त्वं तद्विरुद्धस्य तदभाववत्त्वस्यैव आकाशे विद्यमानत्वात् निष्क्रमणादेः निमित्तकारणमपि न भवितुमर्हतीति न तदपेक्षावशेनापि तदाकाशं साधयितुमलमित्यर्थः ॥ ननु द्वारदेशे तदवच्छिन्नाकाशोऽस्ति । तस्मिन् सति निष्क्रमणादि मवति । कुड्यादौ तदभावे न भवतीति एवान्वयतिरेको, इति चेत् अत्राह ७२. संयोगादभावः कर्मणः॥२३॥ कुडघमभिगच्छन् पुरुषः तेन संयोगं प्राप्नोति । ततः परं गन्तुं न शक्नोति । तेन निष्क्रमणाभावः । एवं च मुर्तद्रव्यसंयोगः निष्क्रमणप्रतिबन्धकः । तदभावात् द्वारदेशे निष्क्रमणं भवतीत्येवमुपपत्तो नाकाशकल्पनमावश्यकम् ॥

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154