Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 49
________________ कर्षे प्रत्यक्षज्ञानोत्पत्तिकारणे सत्याप वायोः प्रत्यक्षं न जायते । रूपाभावात् । एवं वायोरदृष्टलिङ्गत्ववादिना भवता तस्याप्रत्यक्षत्वमभ्युपगतम् । अप्रत्यक्षस्य तस्य "अयं वायु"रिति संज्ञाकरणायोगात् वायुरिति विशेषाभिधानं अप्रामाणिकम् । गौः प्रत्यक्षः । तं दृष्टवान् कश्चित् "अयं गौरिति व्यवहर्तव्यः' इति सङ्केतमकरोदिति युज्यते । न तु अप्रत्यक्षे पदार्थे । अभिधेये वस्तुनि अदृष्टे अभिधानाकांक्षाविरहात् । नन्वनुमानावगतस्यार्थस्य अमिधानाकाङ्क्षा किं न घटत इत्यत्राह६५. सामान्यतोदृष्टाच्चाविशेषः ॥ १६ ॥ अनुमापकं लिङ्गं द्विविधं-विशेषतो दृष्टं सामान्यतो दृष्टं चेति । पक्षे तत्सजातीये वा धर्मिणि साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणे सति तत् साधनं विशेषतो दृष्टम् । यथा विषामित्वादि । यत्र न तथा तत्रत्यं साधनं सामान्यतो दृष्टम् । यथा सूर्ये गत्यनुमाने पूर्वमन्यत्र दृष्टस्य पश्चादन्यत्र दर्शनम् । प्रकृतं स्पर्शरूपं वायुलिङ्ग च सामान्यतो दृष्टमेव । यत्र स्पर्शः तत्र वायुरिति विशिष्य व्याप्तिग्रहणाभावात् । तेन अनेन लिङ्गेन जायमानायां बुद्धौ कश्चिदाश्रयोऽस्तीति सामान्यमेव विषयः । न तु वायुत्वरूपो विशेषः। अगृहीते चास्मिन् विशेषे तदभिधायितया पदविशेषकल्पनमशक्यम् । सामान्यमेव गृह्यते । न तु विशेष इति सूत्रार्थः। ततो जायमानः प्रत्ययः अविशेषः विषयतया वायुत्वरूपविशेषरहित एवेति वा । तस्मिन् विशेषाभाव इति वा। तहि वायुरिति अनादिः सार्वत्रिको व्यवहारः कथम् । तत्र हि उपपत्तिर्वक्तव्या, इत्यत्र स्वमतमाह आक्षेप्ता ६६. तस्मादागमिकम् ॥१७॥ आगमे वेदे भवं आगमिकम् । लिङ्गमिति व्यवधानेऽप्यनुवर्तते । लिङ्ग ज्ञापकम् । यस्मात् विशिष्य वायुत्वेन वाय्ववगतौ वा तदभिधायित्वेन वायुपदसिद्धौ वा प्रत्यक्ष वा अनुमानं वा न निदानं भवितुमर्हति, तस्मात् आगमे तत्प्रतिपादकं वाक्यमेव तन्मूलमित्यर्थः । यद्वा वायुत्वावच्छिन्नं द्रव्यमस्तीति तदभिधायि वायुपदमिति च आगमादेवावगत मित्यर्थः॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154