Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag
View full book text ________________
प्रथमाध्याय प्रथमाह्निकम् (१९) एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् ।
____एकमेव द्रव्यं समवायिकारणं यस्य तत् एकद्रव्यम् । पटादीनि अवयविद्रव्याणि समव यिक रणभूतेषु बहुषु अवयवेषु व्यासज्य वर्तन्ते । तथा द्वित्वादयः संख्याः संयोगादयश्च अनेकत्र । तथा न कर्म । एकस्मिन्नेव स्वसमवायिकारणभूते द्रव्ये वर्तते सर्वं कर्म । अनेकवृत्ति सजातीयवन्तौ द्रव्यगुणौ अतथाभूतं कर्मति इदमस्य तदुभयापेक्षया वैधय॑म् ।
अगुणं गुणशून्यम । पूर्व अगुण इत्युक्ते नञ्तत्पुरुषभ्रान्तिर्भवेदिति तत्परिहाराय अगुणवानित्युक्तम् । अत्र तु लिङ्गन बहुव्रीहित्वनिश्चयात् न तथा भ्रान्तिप्रसङ्ग इति अगुणमित्येवोक्त, न तु अगुणवदिति ।
पदार्थत्रये गुणवदिति द्रव्यलक्षणकथनेन इतरयोः गुणरहितत्वं द्रव्यापेक्षया वैधर्म्यमिात अन्योन्यापेक्षया साधर्म्यमिति च व्यजितम् । अत्र एकद्रव्यमगुणमित्युक्त्या "एकद्रव्यत्वे सति अगुणत्वं कर्मणो गुणापेक्षया वैधर्म्य, एकद्रव्यभिन्नत्वे सति अगुणत्वं कर्मापेक्षया गुणस्य वैधर्म्यम्" इति ज्ञापितं भवति ।
संयोगविभागेषु-संयोगान् प्रति विभागान् प्रति च । न विद्यते अपेक्षा यस्य तत् अनपेक्षम । तच्च तत् कारणं च अनपेक्षकारणम् । अपेक्षा समवायसंबन्धेन कारणान्तरस्य । तथाच समवायसंबन्धेन कारणान्तर निरपेक्षं संयोगविभागकारणं यत् तत्कर्मेति कर्मलक्षणम् । कर्मणा विभागः, पूर्व देशसंयोगनाशः, उत्तरदेशसंयोगश्च जायते । तत्र विभागस्य पूर्व देशसंयोगनाशं प्रति कारणत्व, न तूत्तरदेशसंयोग प्रत्यपि । कुलाल पितुर्घटं प्रतीव अन्यथासिद्धत्वात् । पूर्वदेशसंयोगनाशस्य कारणत्वेऽपि समवायसंबन्धेन कारणत्वाभावात् न कर्मणोऽनपेक्षत्वभङ्गः । एतेन संयोगोत्पत्ती समवायिकारणद्रव्यसापेक्षत्वात् कर्मणो निरपेक्षत्वं नास्तीति प्रत्युक्तम् । समवायिकारणस्य तादात्म्यसंबन्धेनैव कारणत्वात् । समवायसंबन्धेन कारणत्वाभावात् ।
संयोगविभागकारणत्वमात्रस्य लक्षणत्वे द्रव्ये संयोगविभागसमवायिकारणेऽतिव्याप्तिः स्यात् । अतोऽनपेक्षकारणत्वोक्तिः । द्रव्यस्य कर्मसापेक्षत्वादतिव्याप्तिबारणम् । अनपेक्षकारणत्वं च समवायसंबन्धन विवक्षितम् । अतः अवयविसंयोग
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154