Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 40
________________ वैशेषिकसूत्रवृत्तौ (४४) सामान्यविशेषाभावेन च ॥ १२ इति । न द्रव्यत्वे सत्ता वर्तते । द्रव्यं सत् इत्यादिरूपाया एवानुगतप्रतीतेः सत्वात् । द्रव्यत्वं सदित्येवंरूपायाः अभावात् । ननु द्रव्यत्वमस्तीति व्यवहारोऽस्त्येव । तेन द्रव्यं सदिति प्रत्ययोऽपि अस्तीत्येवाभ्युपगन्तव्यमिति चेन्न । एतादृशव्यवहारस्य अस्ति प्रमाविषयः, मत् कालसंवन्धि, इत्याद्यर्थान्त रपरत्वात् । सत्तासामान्यपरत्वाभावात् इत्थं द्रव्यत्वं द्रव्यमित्यादिप्रतीतिविरहात् द्रव्यत्वादिकमपि तत्र नास्तीति ज्ञ ेयम् । एवं सामान्यविशेषाभावेन द्रव्यत्वं न द्रव्यं, न गुणः, न कर्म । (४५) तथा गुणेषु भावात, गुणत्वमुक्तम ॥ १३ २१ गुणत्वसामान्यस्य पदार्थान्तरत्वोपपादनाय पूर्वोक्तां तस्य सिद्धिमनुवदति । यथा त्रिषु पदार्थेषु अनुगतप्रतीतिविषयतया विद्यमानत्वेन सत्ता सिद्धा, यथाच सर्वेषु द्रव्येषु तथाविधप्रतीतिविषयतया विद्यमानत्वेन द्रव्यत्वं सिद्धमित्युक्त ं तथा सर्वेषु गुणेषु अनुगतप्रतीतिविषयतया विद्यमानत्वेन गुणत्वमपि सिद्धमित्युक्तमित्यर्थः । , द्रव्यगुणकर्मभ्योऽर्थान्तरं गुरणत्वम् । सामान्यत्वात् । सत्तावत् द्रव्यत्ववच्चेत्यप्युक्तमित्यनुसंधेयम् । अत्र पूर्ववत् 'अनेकगुणवत्त्वेन गुणत्वमुक्तम्' इति सुवचम् । पूर्वमेव वा " द्रव्येषु मावाद् द्रव्यत्वमुक्तम्" इति । तथापि अनेकव्यक्तिवृत्तित्वं सामान्यस्य जीवितमित्येतत्स्फुटीकरणाय बहुवचनगम्यमिदं पूर्वं कण्ठोक्तम् । अत्र तत्सुगममिति बहुवचनमेव प्रादृतमिति ज्ञेयम् । अस्मिन् सूत्रे तथेत्येतत् किं सूत्रकारेणैव प्रयुक्त, अवतारिकारीत्या पश्चात् कैश्चिद्यजितं वेति युक्ता चिन्ता । (४७) सामान्यविशेषाभावेन च ॥ १४ पूर्वंवत् गुण्णत्वस्य द्रव्यगुणकर्मभ्योऽर्थान्तरमिदम् । न हि गुणत्वे सत्ता वा द्रव्यत्वादिकं वा अस्ति । अतः तेभ्यः पदार्थान्तरमिदम् ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154