Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 25
________________ प्रथमाध्याये प्रथमाह्निकम् अविशेषः-विशेषः असाधारणधर्मः, तद्भिन्नः अविशेषः साधारणधर्मः, साधयम् । द्रव्यगुणकर्मणां सदिति अविशेषः । सदिति पदेन व्यवह्रियमाणं सत्ताजातिमत्त्वं साधर्म्यम् साधारणधर्म इत्यर्थः । सत्ताजातिः द्रव्यगुणकर्मसु निष्वेव पदार्थेषु वर्तते, नान्येषु । अतः इयं त्रयाणामेषां साधारणधर्मः । अनित्यमित्यपरः प्रविशेषः । अनित्यत्वं उत्पत्तिविनाशवत्त्वम् । इदमेव प्रागभावप्रतियोगित्वे सति प्रध्वंसाभावप्रतियोगित्वमित्युच्यते । घटादीनां कार्यद्रव्याणां, पाकजादीनां रूपादीनां संयोगादीनां च गुणानां, सर्वेषां च कर्मणामनित्यत्वात् अयमेषां साधारणधर्मः। द्रव्यवत्त्वमन्योऽविशेषः । यस्य द्रव्यं समवायिकारणं तद् द्रव्यवत् । द्रव्यसमवायिकारणकमित्यः । तथात्वं एषां साधर्म्यम् । घटादीनां द्रव्याणां कपालादिरूपं द्रव्यं समवायिकारणम् । घठादिसमवेतानां रूपादीनां गुणानां कर्मणां च घटादिद्रव्यं समवायिकारणम् । अतो द्रव्यवत्त्वं त्रयाणाम् । कार्यत्वं च । घटादीनां द्रव्याणां पाकजरूपादीनां संयोगादीनां च गुणानां, सर्वेषां कर्मणां च कार्यत्वात् । प्रागभावप्रतियोगित्वं कार्यत्वम् । कारणत्वं च । कपालादीनां द्रव्याणां घटादिकं प्रति, तन्तुसंयोगादीनां गुणानां पटादिकं प्रति, कर्मणां संयोगविभागादिकं प्रति च कारणत्वात् । सामान्य विशेषवत्त्वं च । सामान्यं जातिः । तस्या विशेषः अवान्तरभेदः द्रव्यत्वादिः । द्रव्येषु द्रव्यत्वस्य, गुणेषु गुणत्वस्य, कर्मसु कर्मत्वस्य च विद्यमानत्वात् एषां सामान्य विशेषवत्त्वम् ॥८॥ (९) द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । (१०) द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् ॥ द्रव्यगुणकर्मणां त्रयाणां पदार्थानां साधर्म्यमुक्तम् । अथाद्य द्रव्यगुणयोर्द्वयोराह । अनयोः सजातीयारम्भकत्वं साधर्म्यम् । किमिदं सजातीयारम्भकत्वं ? तद्विवृणोति सूत्रान्तरेण । सजातीयं स्वमात्रवृत्ति जातिमत् वस्तु । तदारम्भकत्वं तदुत्पादकत्वम् । द्रव्यस्य स्वमात्रवृत्तिर्जातिः द्रव्यत्वम् । तद्वत् तस्य सजातीयम् । तदुत्पादक द्रव्यम् ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154