________________
प्रथमाध्याये प्रथमाह्निकम् अविशेषः-विशेषः असाधारणधर्मः, तद्भिन्नः अविशेषः साधारणधर्मः, साधयम् । द्रव्यगुणकर्मणां सदिति अविशेषः । सदिति पदेन व्यवह्रियमाणं सत्ताजातिमत्त्वं साधर्म्यम् साधारणधर्म इत्यर्थः । सत्ताजातिः द्रव्यगुणकर्मसु निष्वेव पदार्थेषु वर्तते, नान्येषु । अतः इयं त्रयाणामेषां साधारणधर्मः । अनित्यमित्यपरः प्रविशेषः । अनित्यत्वं उत्पत्तिविनाशवत्त्वम् । इदमेव प्रागभावप्रतियोगित्वे सति प्रध्वंसाभावप्रतियोगित्वमित्युच्यते । घटादीनां कार्यद्रव्याणां, पाकजादीनां रूपादीनां संयोगादीनां च गुणानां, सर्वेषां च कर्मणामनित्यत्वात् अयमेषां साधारणधर्मः।
द्रव्यवत्त्वमन्योऽविशेषः । यस्य द्रव्यं समवायिकारणं तद् द्रव्यवत् । द्रव्यसमवायिकारणकमित्यः । तथात्वं एषां साधर्म्यम् । घटादीनां द्रव्याणां कपालादिरूपं द्रव्यं समवायिकारणम् । घठादिसमवेतानां रूपादीनां गुणानां कर्मणां च घटादिद्रव्यं समवायिकारणम् ।
अतो द्रव्यवत्त्वं त्रयाणाम् । कार्यत्वं च । घटादीनां द्रव्याणां पाकजरूपादीनां संयोगादीनां च गुणानां, सर्वेषां कर्मणां च कार्यत्वात् । प्रागभावप्रतियोगित्वं कार्यत्वम् । कारणत्वं च । कपालादीनां द्रव्याणां घटादिकं प्रति, तन्तुसंयोगादीनां गुणानां पटादिकं प्रति, कर्मणां संयोगविभागादिकं प्रति च कारणत्वात् । सामान्य विशेषवत्त्वं च । सामान्यं जातिः । तस्या विशेषः अवान्तरभेदः द्रव्यत्वादिः । द्रव्येषु द्रव्यत्वस्य, गुणेषु गुणत्वस्य, कर्मसु कर्मत्वस्य च विद्यमानत्वात् एषां सामान्य विशेषवत्त्वम् ॥८॥ (९) द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । (१०) द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् ॥
द्रव्यगुणकर्मणां त्रयाणां पदार्थानां साधर्म्यमुक्तम् । अथाद्य द्रव्यगुणयोर्द्वयोराह । अनयोः सजातीयारम्भकत्वं साधर्म्यम् । किमिदं सजातीयारम्भकत्वं ? तद्विवृणोति सूत्रान्तरेण । सजातीयं स्वमात्रवृत्ति जातिमत् वस्तु । तदारम्भकत्वं तदुत्पादकत्वम् । द्रव्यस्य स्वमात्रवृत्तिर्जातिः द्रव्यत्वम् । तद्वत् तस्य सजातीयम् । तदुत्पादक द्रव्यम् ।