________________
रूपरसगन्धस्पर्शाः सङख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वषो प्रयत्नश्च गुणाः ॥
द्वितीयपदार्थों गुणो विभज्यते । रूपादयश्चत्वारो भूतमात्रगुणाः । बुद्धयादयः षट् आत्ममात्रगुणाः । अत्र सप्तदश गुणाः कण्ठोक्ताः । स्नेहशब्दगुरुत्वद्रवत्वधर्माधर्मसंस्काराः सप्त अनुक्ताः चकारेण समुच्चीयन्ते । उपरि तत्रतत्र सूत्रकृतव वक्ष्यमाणत्वात् । अन्यदत्र विस्तरभिया न लिख्यते । ॥६॥
अग्रभागस्य
(७) उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि ।
तृतीयपदार्थः कर्म विभज्यते । उत्क्षेपणं-कस्यचिद्वतुस्नः ऊर्ध्वदेशसंयोगानुकूलो व्यापारः । अवक्षेपणं-कस्यचिद्वस्तुनः अबोदेशसंयोगानुकूलो व्यापारः । आकुञ्चनं-कस्यचिद् वस्तुनः अग्रभागस्य मूलभागसामीप्यानुकूलो व्यापारः । प्रसारणं-कस्यचिद्वस्तुनः अग्रभागस्य मूलभागात् विप्रकर्षानुकूलो व्यापारः । शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् । शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम् इति केचित् । वक्रतासंपादकं कर्म पाकुञ्चनम् । ऋजुतासंपादकं कर्म प्रसारणमित्यपरे । एवमिमानि चत्वारि सकर्मकक्रियारूपाणि । गमनं कस्यचित् तादृशो व्यापारः येन स्वस्य स्वावस्थानदेशात् देशान्तरसंयोगो जायते । इयममिका क्रिया । ननु चक्र भ्रमति । तत् कुलालः भ्रमयति । अस्य कुलालव्यापारस्य कुत्रान्तर्भावः ? न हि सः उत्क्षेपणादिषु पञ्चसु कर्मसु अन्यतमं भवति । उच्यते । पञ्चभ्योऽतिरिक्तमेवेदं कर्म । तर्हि पञ्चधा विभागानुपपत्तिरिति चेत्, नात्र तथा विभाग इष्यते । इतिशब्दस्य प्रकारार्थत्वात् । इति-एवम्प्रकाराणि कर्माणि इत्यर्थात् । ॥७॥ (८) सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुण
कर्मणामविशेषः। उक्तानां 'द्रव्यगुणकर्मणां त्रयाणां पदार्थानां साधर्म्यमुच्यते ।