________________
प्रथमाध्याये प्रथमाह्निकम् धर्मविशेषप्रसूतादिति सुकृतरहितानां दुर्लमत्वज्ञापनद्वारा अस्य तत्त्वज्ञानस्य स्तुतिः । अस्य स्वयं पुरुषार्थत्वाभावात् पुरुषार्थपर्यवसायित्वस्य, तत्रापि उत्तमपुरुषार्थपर्यवसायित्वस्य ज्ञापनायोक्तं तत्त्वज्ञानान्निःश्रेयसमिति !
शास्त्रस्य यत् साक्षात् प्रयोजनं द्रव्यादिपदार्थतत्त्वज्ञानं तस्मिजाते नित्यानित्यहिता हित विवेकेन मोक्षे रागः अन्यत्र विरागश्च जायते । ततः मोक्षोपायं परिगृह्णाति, हेयस्य हानोपायं च । ततो निःश्रेयसं प्राप्नोति । अतो महाफलत्त्वात् अस्य तत्त्वज्ञानस्य तत्प्रयोजनकमिदं शास्त्रं युक्तारम्भमिति भावः ।
(५) पृथिव्यापस्तेजो वायुराकाशं कालो दिगाला मन इति
द्रव्याणि ।
प्रथमपदार्थस्य द्रव्यस्यायं नवधा विभागः । अत्र आकाशान्तानि पञ्चभूतानि । रूपं रसः स्पर्शः गन्धः इति चतुर्गुणायाः पृथिव्याः प्रथमं निर्देशः । गन्धवर्ज त्रिगुणानामपां ततः । गन्धरसवर्ज द्विगुणस्य तेजसः ततः परम् । गन्धरसरूपवर्ज स्पर्शकगुणस्य वायोरनन्तरम् । गुणचतुष्टयेनापि रहितस्य शब्दात्मकविशेषगुणान्तरवतः आकाशस्य ततः परम् । आकाशवद्विभुत्वानित्यत्वाज्जडत्वाच्च अनन्तरं कालो निर्दिश्यते । कालपरिच्छेदकतया कालत्वेनैव व्यवह्रियमाणपरिस्पन्दवता सूर्येणैव स्वोदयास्तमयाभ्यां निरूपणीयविशेषा दिक् ततः परम् । अथ अजड आत्मा। तदुपकरणं अन्ते ।
पूर्व विभागस्याभिप्रेतत्वेऽपि आर्थिकत्वेन साक्षात् अचिकीर्षितत्वात् पदार्थविशेषणतया द्रव्यादीनां समासेन निर्देशः । इह तु विभागस्यैव साक्षात् चिकीर्षितत्वात् असमासः । इतिकारार्थ च । इति द्रव्याणि-इत्येतावन्त्येव । इतोऽधिकं द्रव्यं किमपि नास्ति । इति सूत्रकारोऽत्र व्यवछेदं चिकीर्षन् इतिपदं प्रयुक्त । मनांसि द्रव्याणि, इति समासे सति तद्धठनं न शो भायै ॥५॥