________________
वैशेषिकसूत्रवृत्तौं कर्म, निःश्रेयससाधनतया ज्ञानं च बोधयति । न चैतत् केनापि प्रमाणान्तरेणावगतम् । न च बाधितम् । अतः अभ्युदयसाधनभूतकर्मात्मकस्य निःश्रेयससाधनभूतज्ञानात्मकस्य च धर्मस्य बोधकत्वात् आम्नायस्य प्रामाण्यम् । तदेवं सर्वः आस्तिकः प्रमाणत्वेन परिगृहीतवेदबोधितत्वात् अभ्युदयनिःश्रेयससाधनतया प्रसिद्धो योऽर्थः कर्मज्ञानरूपः स धर्मः । तमिदानी व्याख्यास्याम इति सूत्रत्रयार्थः ॥३॥
(४) धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां
साधर्म्यवैधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् ।
धर्मस्य विशेषः काचन व्यक्तिः । इदमिति निर्देष्टुमशक्यं इह जन्मनि प्राक्तने वा निष्पन्नं किमपि सुकृतमित्यर्थः । तेन प्रसूतात् उत्पादितात् तत्त्वज्ञानात् । तत्त्वं यथावस्थितं अनारोपितं अकल्पितं रूपम् । तस्य ज्ञानं वोधः तस्मात् । केषां तत्त्वस्य ज्ञानं ? पदार्थानाम् । वस्तूनामित्यर्थः । के ते पदार्थाः ? द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः इत्येते । काभ्यां संपन्नात् एषां पदार्थानां तत्त्वज्ञानात् । साधर्म्यवैधाभ्यां सम्पन्नात् । साधर्म्य समानधर्मवत्त्वम् । वैधयं इतरावृत्तिधर्मक्त्रम् । अनयोनिमिह विवक्षितम् । साधर्म्यज्ञानेन वैधय॑ज्ञानेन च सम्पन्नं यत् एषां पदार्थानां तत्त्वज्ञानं तस्मादित्यर्थः । पृथिवी रसवत्त्वेन अद्भिः समाना, रूपवत्त्वेन अद्भिः तेजसा च समाना, स्पर्शवत्त्वेन अप्तेजोवायुभिः समाना, अनुष्णाशीतस्पर्शवत्त्वेन अंप्तेजोभ्यां असमाना, वायुना समाना च, गन्धवत्त्वेन स्वेतरैः सर्वैः पदार्थः असमाना, इत्येवं साधर्म्यवैधय॑चिन्तया पृथिव्याः यत् तत्त्वं तस्य ज्ञानं संपद्यते । एवमन्यत्रापि, इति द्रष्टव्यम् । ईदृशात् एषां पदार्थानां तत्त्वज्ञानात् निःश्रेयसं मोक्षरूपः परमः पुरुषार्थों भवति ।
अस्मिन् सूत्रे शास्त्रारम्भः । पदार्थानामिति विषयनिर्देशः । द्रव्यगुणकर्मसामान्यविशेषसमवायानां इति पदार्थविभागः । साधर्म्यवैधाभ्यामिति पदार्थनिरूपणप्रकारकथनम् । तत्त्वज्ञानादिति शास्त्रप्रयोजनाभिधानम् ।