________________
प्रथमाध्याये प्रथमाह्निकम्
स विद्वानुपसन्नाय सम्यक् ” इति शास्त्रात् । तस्मात् प्रश्नो हेतुः । को धर्मः, इत्यनन्तरसूत्रेण वक्ष्यते । व्याख्यास्यामः - - विशदीकरिष्यामः । श्रीः ।
(२) यतोऽभ्युदयनिः यस सिद्धिः स धर्मः ।
अभ्युदयः मोक्षव्यतिरिक्त ऐहिकं आमुष्मिकं च फलम् । निःश्रेयसं मोक्षः । अनयोः सिद्धिः निष्पत्तिः प्राप्तिः यतः यस्मात् साधनात् भवति, स धर्मः । तत् साघनं धर्मवदवाच्यमित्यर्थः । पुण्यं सुकृतमिति चास्य व्यवहारः ॥२॥ स " यतस्तत्सिद्धिः “अभ्युदयनिःश्रेयतसिद्धिहेतुर्धर्मं” इति वक्तव्पे इति वचनं तस्य प्रमाणविशेषेण प्रसिद्धिसूचनार्थम् ।
धर्मः"
किं तत्प्रमाणं येन तस्य प्रसिद्धि: ? इत्यत्राह :
(३) तद्वचनादान्तायस्य प्रामाण्यम् ।
इति । तस्य धर्मस्य अभ्युदयनिःश्रेयससाधनभूतस्य वचनात् बोधनात् उपदेशात्, आम्नायस्य वेदस्य, प्रामाण्यं प्रमाणत्वं भवतीति शेषः । आम्नायः प्रमाणमिति सर्वैरास्तिकैरभ्युपगतम् । कस्य प्रमेयस्य प्रमां जनयित्वा स प्रमाणं भवति । न तावत् प्रत्यक्षानुमानेन वा अवगतस्य कस्यचित् । प्रमाणान्तरावगतार्थबोधकत्वे केवलमनुवादकत्वापत्तेः प्रमाणत्वासंभवात् । अतः प्रमाणान्तरानवगतार्थबोधकत्वादेव तस्य प्रामाण्यं निर्वाह्यम् ।
प्रमाणान्तरानवगतोऽप्यर्थः प्रमाणान्तरावगतार्थविरुद्धो न भवितुमर्हति । बाधितार्थबोधकत्वेन अप्रामाण्यापत्त ेः । अग्निः शीत इति बोधयन् हि आम्नायः अप्रमाणं भवेत् । तस्मात् प्रमाणान्तरेण अनवगतः अबाधितश्च योऽर्थः तद्बोधकत्वादेव आम्नायः प्रमाणं भवति । सोऽर्थः अभ्युदयनिःश्रेयससाघन रूपो धर्म एव ।
आम्नायो हि "ज्योतिष्टोमेन स्वर्गकामो यजेत", "उद्भिदा यजेत पशुकाम:" "कारीर्या वृष्टिकामो यजेत", "सोयं चरुं विर्वपेद्ब्रह्मवर्चसकामः”, "ब्रह्मविदाप्नोति परम्", "ब्रह्म वेद ब्रह्मव भवति" इत्यादिभिः अभ्युदयसाधनतया