________________
वैशेषिकसूत्रवृत्ती
प्रथमाध्याये प्रथममाह्निकम् साधर्म्यवधर्म्यविवेचनेन
पदार्थतत्त्वावगमस्य सिद्धयं । कृतं करणादेन महर्षिणा यत्
वैशेषिकं तद् विवृणोमि शास्त्रम् ॥ सूत्रकारः स्वसूत्राणां यमर्थमभिसन्दधे । तं पश्यति यथा धीम तथा पश्यतु मां हरिः ।। येऽपि सुकुमारमतय
स्तेऽप्यक्लेशं कणादसूत्राणाम् । भावं बुद्धयन्तामिति वृत्तिमिमां वितनुमः सुगमाम् ॥
--x
प्रथमाध्याये प्रथममाह्निकम् (१) अथातो धर्म व्याख्यास्यामः
अथात इति पदद्वयं अर्थरहितं मङ्गलार्थतया शास्त्रारम्भे उच्चार्यते । यद्वा अथ अनन्तरम् । कस्मादनन्तरमित्यपेक्षायां व्याख्यानप्रयोजकं यत् पूर्ववृत्तं तस्यानन्तरमिति लभ्यते । तत् पूर्व वृत्तं येभ्यो व्याख्यानं, तेषां शिष्याणां उपसदनं “भगवन् धर्म नो व्याख्याहि" इति तत्कृतः प्रश्नश्चेति युक्तम् । ततोऽन्यस्य उपस्थापकाभावात् । एवं च उपसन्नयोग्यशिष्यकृतप्रश्नानन्तरमित्यथशब्दार्थः । अतः-शिष्यकृतात्प्रश्नादेव हेतोरित्यर्थः । योग्यैः शिष्यः प्रश्ने कृते हि अभिज्ञैर्दयालुभिराचार्यः अवश्यमेव उपदेशः कर्तव्यः । "तस्मै