________________
वैशेषिकसूत्रवृत्ती यथा तन्त्वात्मकानि द्रव्याणि पटात्मकं द्रव्यान्तरं उत्पादयन्ति । तन्तुरूपात्मका गुणाश्च पटान्तरात्मकं गुणान्तरमुत्पादयन्ति । एवं द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् ।
__ अत्र तन्त्वपेक्षया तदारब्धः पटः द्रव्यान्तरम् । न तु तन्तव एव पटः। तन्तुरूपापेक्षया पटरूपं गुणान्तरम् । न तु तन्तुरूपमेव पटरूपम् इत्यपि ज्ञापितम् ।।६-१०॥ (११) भविष्यति पट इत्युपक्रियमाणेभ्यस्तन्तुभ्यः।
तन्तुभ्यः इति पञ्चमी । उपक्रियमाणेभ्यः तन्तुवायेन तुरीवेमादिनिमित्तकारणकलापसम्भरणेन तत्सहिततया क्रियमाणेभ्यः तन्तुभ्यः हेतुभूतेभ्यः पटः भविष्यति उत्पत्स्यते इति प्रतीतिव्यवहारी भवत इति शेषः ।
तन्तुभ्यः पटस्यातिरिक्तत्वे युक्तिरियम् । न हि तन्तुषु भविष्यत्वप्रतीतिव्यवहारौ घटेते । तेषां विद्यमानत्वात् ॥११॥ (१२) तथाभवतीति सापेक्षेन्यो निरपेक्षेभ्यश्च ।
यथा पटो भविष्यतीति प्रतीतिव्यवहारौ तथा भवतीत्यपि प्रतीतिव्यवहारौ भवतः । केभ्यः। सापेक्षेभ्यो निरपेक्षेभ्यश्च । तन्तुभ्य इति पूर्वसूत्रादनुषज्यते । सापेक्षेभ्यः तन्त्वन्तरसंयुक्तेभ्यः । संयुक्तत्वावस्थायां स्वस्थितौ एकस्य तन्तोः अपरतन्त्वपेक्षायाः सत्वात् सापेक्षत्वम् । निरपेक्षेभ्यः तन्त्वन्तरसयोगरहितेभ्यः। असंयोगावस्थायां पृथस्थितानां तन्तूनां स्वस्थितौ तन्त्वन्तरापेक्षाविरहात् निरपेक्षत्वम् । पटारंभाय तन्त्वन्तरसंयोगसापेक्षत्वात् असंयुक्तास्तन्तवः सापेक्षाः । तन्निरपेक्षत्वात् संयुक्तास्तन्तवो निरपेक्षा इत्यन्ये । वयनोपक्रमात् परं समाप्तेः पूर्व तन्तवः मिथः संयुक्ताः असंयुक्ताश्च भवन्ति । तस्त्रामवस्थायां तान् पश्यतां पटो भवति उत्पद्यते इति प्रतीतिव्यवहारौ भवतः, इत्यर्थः । ___इयमन्या युक्तिः । तन्तूनामेव पटत्वे एवं प्रती तिव्यवहारौ नोपपद्यते। तेषां चिरात्पूर्वमुत्पन्नत्वात् । इदानीमुत्पद्यमानत्वाभावात् । ननु "तथा अभूदिति निष्पन्नसर्वसंयोगेभ्यः" इत्यपि युक्तं सूत्रयितुमिति चेन्न । उत्पन्नत्वस्य पट इव तन्तुष्वपि
F. 62