________________
प्रथमाध्याये प्रथमाह्निकम अन्वयेन बाधविरहात् । अथ अभूत् अद्योत्पन्नमित्यर्थः । अतो न तन्तुष्वन्वयः । तेषां चिरात्पूर्वमुत्पन्नत्वेन अद्योत्पन्नत्वाभावात्, इति चेत् न, एवं समर्थनीययुक्तथ पन्यासस्य सूत्रकारानभिमतत्वात् ।
एवं तन्तुभ्योऽतिरिक्ततया पटस्य, द्रव्यस्य द्रव्यान्तरारम्भकत्वं उपपन्नमिति दर्शितम् । पटस्य तन्तुभ्योऽन्यत्वे सिद्धे पटरूपस्य तन्तुरूपान्यत्वं सिद्धमेवेति गुणस्य गुणान्तरारम्भकत्वमपि सिद्धयति ॥१२॥ (१३) कम कम साध्यं न विद्यते ।
द्रव्यगुणयोर्द्वयोरेव सजातीयारम्भकत्वं साधर्म्यमुक्तम् । कर्मणः तत् कुतो नोच्यते ? इत्यत्राह- कर्मेति । कर्मजन्यं कर्म नास्ति । तत्सत्वे हि सजातीयारम्भकत्वं कर्मणो भवेत् । तदभावात् इदं नास्ति । तस्मान्नोच्यत इति ॥१३॥ (१४) न द्रव्यं कार्य कारणं च वधति ।
द्रव्यमिति द्वितीया। कार्य कारणमिति प्रथमा । वधतीति हन्तीत्यर्थे आर्ष रूपम् । कार्य कारणं च (कर्तृ) द्रव्यं (कर्म) न वधति न नाशयति । द्रव्यस्य स्वकार्येण वा स्वकारणेन वा नाशो नास्तीत्यर्थः ॥१४॥ (१५) उभयथा गुणाः।
गुणाः उभयथा स्वकार्यनाइयाश्च स्वकारणनाश्याश्च भवन्ति । शब्दपरम्परायां पूर्वशब्दकार्येण उत्तरशब्देन पूर्वशब्दस्य नाशः । उपान्त्येन शब्देन अन्त्यशब्दकारणेन अन्त्यशब्दस्य नाशः । अतः उभयनाश्यत्वम् ॥ (१६) कार्यविरोधि कर्म ।
कार्यस्य विरोधि तस्मिन्नुत्पन्ने स्थित्यनहम् । तेन नाश्यमित्यर्थः । कर्म कार्यनाश्यमित्युक्त भवति । कर्मणः कार्य उत्तरदेशसंयोगः । तेन कर्मणो नाशो भवति ।
न द्रव्यमित्यादिना सूत्रत्रयेण "द्रव्यं कार्यनाश्यत्वाभावकारणनाश्यत्वाभावोभयवत् । गुणः कार्यनाश्यत्वकारणनाश्यत्वोभयवान् । कर्म कार्यनाश्यत्वमात्रवत् ।"