________________
भूमिका न्यायवैशेषिके, साङ ख्ययोगी, पूर्वोत्तरमीमांसे इति षड्दर्शनी प्रसिद्धा। तस्या बैशेषिकं प्राचीनतममिति तत्स्वरूपं परिशीलयतां धीमतां निश्चयो न न भबेदित्यस्माकं दृढा मतिः । न्यायवैशेषिके इत्यत्राल्पान्तरत्वात् न्यायशब्दस्य पूर्वनिपातः। न तु तस्य दर्शनस्य एतदपेक्षया कालतः प्राचीनत्वात् ।
कणाद इति किं दर्शनप्रवर्तकस्य महर्षेः पितृकृतं रूढं नाम अथवा निमित्तविशेषाज्जातमिति न निश्चित्य किमपि वक्तुं शक्यते.। प्रौलूक्यमित्यपि दर्शनमिदं ब्यवह्रियते । तत्रापि हेतोरध्यवसानं दुष्करम् । महर्षिरयं दर्शनकारेभ्योऽन्येभ्यः सर्वेभ्यः प्राचीन इत्येतावन्मात्रमवगम्यते । न त्विदन्तया तज्जीवनकालः । बुद्धादप्ययं प्राचीन इति ग्रन्थकालचिन्तकाः सर्वे सम्प्रतिपन्नाः।
सूत्रात्माऽयं ग्रन्थः दशाध्यायीमयः । प्रत्यध्यायं द्वे आह्निके । शासनात पदार्थतत्त्वबोधनात् शास्त्रमिदं भवति । पदार्थाः सत्यानि वस्तूनि । ते अस्य शास्त्रस्य विषयाः। रुति, के ते, किस्वभावा इति तेषां विविच्य निरूपणमिह क्रियते। ते सप्त-द्रव्यं गुणः कर्म सामान्य विशेषः सनवायः अभावः इति । एषु द्रव्यादीन् षडेव पदार्थान् प्रथम निर्दिश्य तेषां साधयंवैधाभ्यां तत्त्वज्ञान सम्पाद्यं ज्ञापयति । प्रथमं निर्देशं विना अभावपदार्थ प्रत्यक्ष ज्ञानप्रकरणे नवमाध्याये निरूपयति । एवं करणेन प्रथमं भावाभावरहपेण यदार्थों द्विविधः, तत्र भावः षड्विध इति पदार्थ विभागे विशेष ज्ञापयति ।
अस्मिन् शास्त्रे क्रियमाणं विषयाणां निरूपणं प्राकुलं सङ्गतिहीनं प्रौढशास्त्रोचितप्रक्रियाशून्यं, असारं, पुनरुक्त, बहुषु स्थलेषु दुर्ग्रहं च सत्यं भाति । उक्तवन्तश्च केचित्
अतिविरसमसारं मानवाविहीनं प्रबिततबहुवेलप्रक्रियाजालदुःखम् ।
खवधिसममतन्त्रं तन्त्रमेतद्वदन्ति ॥ इति ।