________________
( ११ )
इत्थं द्रव्यनिरूपणतत्परं द्वितीयाद्यध्याय त्रयम् । एतदनन्तरं निर्देशक्रमेण गुणंनिरूपणे कर्तव्येऽपि भोक्त ुरात्मनः, भोग्यानां विषयाणां भोगोपकरणानां शरीरेन्द्रियाणां च निरूपणे कृते भोगहेतोः तद्व्यवस्थापकस्य च पुण्यपापरूपस्य कर्मणः तद्वारा कर्मसामान्यस्य च उपस्थित्या तन्निरूपणं पञ्चमषष्ठाभ्यां क्रियते । अत्र लौकिकवैदिकभेदेन कर्मविभागमभिप्रेत्य श्रध्यायभेदकल्पनम् ।
अनन्तरं सप्तमप्रभृति दशमान्तं अध्यायचतुष्टयं गुणनिरूपणपरम् । तत्र सप्तमाद्ये रूपादयश्चत्वारो गुणाः परिमाणं च विषयीभवन्ति । द्वितीये सङ्खपापृथक्त्वे, संयोगविभाग परत्वापरत्वे च । अत्र संयोगेन शब्दार्थयोस्तदभावोपस्थापनद्वारा तत्सम्बन्धोपस्थापनात् तन्निरूपणं संयोगविभागनिरूपणानन्तरं क्रियते । अत्रान्ते इदमिति आधाराधेयभावव्यवस्थापकस्य समवायसम्बन्धरूपस्य षष्ठपदार्थभ्य लक्षणादिकमुच्यते । प्रष्टमे नवमे च बुद्धिनिरूपणम् । तत्र विशिष्टप्रत्यक्षस्य सकारणल्य अष्टमाद्ये । विशिष्टप्रत्ययवत् बुद्धयपेक्षः शाब्दव्यवहारः इन्द्रियार्थसन्निकर्षेत्येतद्घटकार्थ
शब्दार्थः, इन्द्रियाणां प्रकृतिश्च द्वितीये ।
बाह्यभावप्रत्यक्षेतर प्रत्यक्षं नवमाद्ये । प्रत्यक्षप्रकरणे तद्विषयतया श्रसदिति धमिप्राधान्येन च प्रभावं निरूपयन् उद्देशसूत्रे अनिर्देशेन ज्ञापितं तस्याप्राधान्यमत्र यति । प्रत्यक्षेतरबुद्धिनिरूपणं द्वितीये । एतेन बाह्यभावप्रत्यक्षातिरिक्तज्ञाननिरूपणं नवमाध्यायकृत्यमिति फलति ।
सुखदुःखविषयं दशमस्य आद्यमाह्निकम् । इच्छाद्वेषप्रयत्वानां पञ्चमषष्ठयोः प्रसिद्धवद् व्यवहारेण तेषु विशेषेण निरूपणीयं नास्तीति मत्या तन्निरूपणात् उदास्तेति If I द्वतीये कारणत्रैविध्यं निरूप्य यथोपक्रमं धर्मस्य आम्नायप्रामाण्यस्य च कीर्त - न शास्त्रमुपसंह्रियते । ऋषिपदाभिधानेन ईश्वरसाधनमत्र विशेषः ।
एवमापाततः प्राकुलत्वभानेऽपि सर्वं सङ्गतमेवेति श्रवधानवतां प्रतिपत्तिभंवत्येव । षण्णां पदार्थानां साधर्म्यवैधम्र्म्यायां तत्त्वज्ञानस्य उद्दिष्टत्वेऽपि द्रव्यगुणकर्मणामेव तद्विशेषेण कुर्वन् तदितरेषां प्राधान्यं ज्ञापयति । एकस्मिन् सूत्रे