________________
अस्य तन्त्रस्य वैशेषिकमिति यत् प्रसिद्धममिधानं तत्र निमितभूतं, अत एव स्वस्य प्रतितन्त्रसिद्धान्त भूतमपि विशेषपदार्थं अन्योपसर्जनतया प्रतिपादयन् एकेनैव सूत्रेण समवायं निरूपयंश्च दृष्टिविशेषेण तयोरत्यन्ताप्राधान्यं मन्यत इव ।
"आपो द्रवाः स्निग्याश्च” इति द्रवत्वस्नेही, “शब्दः स्पर्शवतामगुणः" इति शब्द, "संस्कारादुत्तर" इति, “संयोगविभागवेगानां कर्म समानम्' इति च वेगसंस्कार, "संस्काराच्च स्मृतिः” इति भावनासंस्कारं, “संयोगाभावे गुरुत्वात् पतनम्" इति गुरुत्वं, "इच्छाद्वषपूर्विका धर्माधर्मयोः प्रवृत्तिः" इति धर्माधों चेति सप्त गुणान् अङ्गीकृतान् उपरि ज्ञापयन्नपि भादौ गुणोद्देशसूत्रे इमान् विहाय अन्यान् सप्तदशैव निर्दिशति । तत्र कारणं चिन्तनीयम् । तत्र तत्र, कीर्तनेनवालम् । न तत्र विशिष्य वक्तव्यं किञ्चिदस्तीत्यभिप्रायः स्यात् । उपरि निरूपणाय हि प्रथममुद्देशः । निरूपणस्याकर्तव्यत्वे किमर्थमुद्देशः।
पदार्थानां विभज्य निरूपणे प्रथमप्रवृत्तोऽयं सूत्रकारः स्वोपज्ञेन केनचिन्मार्गेण तत् करोति । धर्ममिविवेकः समीचीनव्यवहारनिदानम् । तत्सिद्धिः अस्य श स्त्रस्य परमं प्रयोजनम् । तत्साधनक्षममिदमित्यत्र नास्ति सन्देहः । द्रव्यस्य गुणकर्माश्रयत्वमुक्त्वा गुणेषु कर्मसु च गुणकर्माभावं पुनः पुनर्वदन् कणादः स्वकाले जनानां उक्तविषये वलवन्तं व्यामोहं स्थितं, तदपनोदनाय स्पस्य जातं महान्तं सम्भ्रमं च आवेदयति । परमाणनां जगत्कारणत्वं शब्दप्रमाणस्य अनुमानेऽन्तवं च वदन् अयं वेदान्तिनामनादरणीयोऽभवत् । तथापि पदार्थविवेचनव्युत्पत्तिकरत्वात् इदं शास्त्रं आस्तिकराहतमेवासीत् । अत एवास्य अध्ययनाध्यापनसम्प्रदायोऽनुवर्तते । प्रसिद्धा चेयं प्राचामुक्तिः "काणादं पाणिनीयं च सर्वशास्त्रोपकारक" मिति ।
श्रीवीरराघवार्येण धीमता यः परिष्कृतः । सूत्रपाठोऽस्मदीयेयं वृत्तिस्तदनुसारिणी ॥