________________
( १० )
अथापि अस्त्येव तत्र कश्चन क्रमश्च सङ्गतिश्च । तथा हि । उद्दिष्टेषु षट्सु पदार्थेषु चरमसमवायवजं इतरपञ्चकविवेचनं प्रथमाध्यायार्थः । तत्र द्रव्यगुणकर्मणी साधर्म्य वैधर्म्यं प्रदर्शनं प्रथमाह्निके । सामान्यस्य विशेषपदार्थस्य च निरूपणं द्वितीये । ‘अन्यत्रान्त्येभ्यो विशेषेभ्यः' इति सूत्र चरमव्यावर्तकत्वाभिधानेनैव विशेष पदार्थ स्वरूपादिकं प्रतिपादितं भवतीति मेने । अतस्तद्विषये न किश्विदन्यदुक्तम् । आत्ममनोव्यतिरिक्तद्रव्यसप्तकनिरूपणं द्वितीयाध्यायार्थः । तत्र माकाशान्तपञ्चकस्य निरूपणं प्रथमाह्निके । अनन्तरे प्रथमं भूतानां गन्धादिगुणव्यवस्थोच्यते । तत्र पृथिव्यां गन्धवत्त्वं श्रग्नेरुष्णस्पर्शवत्त्वं प्रपां शीतस्पर्शवत्त्वं च कण्ठोक्तम् । गन्धायसमानाविकरणस्पर्शवत्वं वायो शब्दवत्वमाकाशे च व्यवस्थितमिति पूर्वमेवोक्तमिति नेोच्यते ।
अनन्तरं क्रमप्राप्तकालदिङ् निरूपणम् । तदनन्तर शब्दस्य द्रव्यत्वं निराकृत्य गुणस्वादिकं स्थाप्यते । यद्यप्याकाशसाधनावसरे सर्वद्रव्यनिरूपणात्परं वा एतत् कर्तुं युक्त तथापि विस्तरापेक्षत्वात् चेतनभूतात्मतद्धमंज्ञानकरणमनोरूपद्रव्यान्तरनिरूपणात् पूर्वं तत्करणमुचितमिति बुद्धया चात्र तत्करणमिति ज्ञेयम् । अत्र प्रसङ्गात् प्रथमं - संशयहेतुनाह ।
शरीरान्तर्वर्तिद्रव्यनिरूपणं तृतीयाध्यायार्थः । आत्मा मनश्च तादृशं द्रव्यम् । आत्मनिरूपणस्य आह्निकद्वयव्यापित्वेऽपि मनोगतेरपि प्रारम लिङ्गत्वात् मध्ये द्वितीयाह्निकारम्भे मनस्साधनम् । अत्र प्रथमाह्निके हेत्वाभासविवेचनं प्रासङ्गिकम् ।
पृथिव्यादीनां चतुर्णां द्रव्याणां नित्यानित्यभेदनिरूपण परश्चतुर्थोऽध्यायः । तत्र नित्यविषये प्रथमाह्निके प्रसङ्गादेव तस्याप्रत्यक्षत्वं तत्कारणं श्रन्यस्य प्रत्यक्षकारणं चाह । एतत्प्रसङ्गात् रूपादिगुणोपलब्धिनिरूपणम् । द्वितीये अनित्यं त्रेधा विभज्य शरीरमात्रं निरूपयति । विषयः भोग्यवस्तुरूपः प्रसिद्ध इति मन्यते । इन्द्रियाणि प्रति वक्तव्यं अष्टमे ज्ञाननिरूपणावसरे ब्रवीति । यदुच्यते तत्सङ्गतमिति नियमः । न तु यद्यसङ्गतं तत्सर्वमुच्यत इति ।