________________
भूमिका
न्यायवैशेषिके, साङ, ख्ययोगी, पूर्वोत्तरमीमांसे इति षड्दर्शनी प्रसिद्धा । तस्य वैशेषिकं प्राचीनतम मिति तत्स्वरूपं परिशीलयतां धीमतां निश्चयो न न भवेदित्यस्माकं दृढा मतिः । न्यायवैशेषिके : इत्यत्रात्पाच्तरत्वात् न्यायशब्दस्य पूर्वनिपातः । न तु तस्य दर्शनस्य एतदपेक्षया कालतः प्राचीनत्वात् ।
कणाद इति कि दर्शनप्रवर्तकस्य महर्षेः पितृकृतं रूढं नाम अथवा निमित्तविशेषाज्जातमिति न निश्चित्य किमपि वक्तुं शक्यते । श्रलुक्यमित्यपि दर्शनमिदं व्यवहियते । तत्रापि हेतोरध्यवसानं दुष्करम् । महर्षिरयं दर्शन कारेभ्योऽन्येभ्यः सर्वेभ्यः प्राचीन इत्येतावन्मात्रमवगम्यते । न त्विदन्तया तज्जीवनकालः । बुद्धादप्ययं प्राचीन इति ग्रन्थकाल चिन्तकाः सर्वे सम्प्रतिपन्नाः ।
सूत्रात्माऽयं ग्रन्थः दशाध्यायीमयः । प्रत्यध्यायं द्वे आह्निके | शासनात पदार्थतत्वबोधनात् शास्त्रमिदं भवति । पदार्थाः सत्यानि वस्तूनि । ते अस्य शास्त्रस्य विषयाः । कृति, के ते, किस्वभावा इति तेषां विविच्य निरूपणमिह क्रियते । ते सप्त द्रव्यं गुणः कर्म सामान्यं विशेषः सनवायः अभावः इति । एषु द्रव्यादीन् षडेव पदार्थान् प्रथमं निर्दिश्य तेषां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं सम्पाद्यं ज्ञापयति । प्रथमं निर्देशं विना अभावपदार्थं प्रत्यक्ष ज्ञानप्रकरणे नवमाध्याये निरूपयति । एवकरणेन प्रथमं भावाभावरूपेण पदार्थो द्विविधः, तत्र भावः षड्विध इति पदार्थविभागे विशेषं ज्ञापयति ।
अस्मिन् शास्त्रे क्रियमाणं विषयाणां निरूपणं प्राकुलं सङ्गतिहीनं प्रोढशास्त्रीचितप्रक्रियाशून्यं, असारं, पुनरुक्त, बहुषु स्थलेषु दुर्ग्रहं च सत्यं भाति । उक्तवन्तश्च केचित्
अतिविरसमसारं मानवार्ताविहीनं प्रबिततबहुवेलप्रक्रयाजालदुःखम् ।
डबधिसममतन्त्र तन्त्रमेतव्वदन्ति ॥ इति ।
000