________________
णवसओ निउत्ताई ॥१॥" ति कूटसङ्ग्रहश्चायं-"वेयड्ड ९ मालवंते ९ विजुप्पह ९ निसह ९ णीलवंते य ९। णव णव कूडा भणिया एकारस सिहरि ११ हिमवंते ११॥१॥ रुप्पि ८ महाहिमवंते ८ सोमणसे ७ गंधमायणनगे य ७। अदृढ सत्त सत्त य वक्खारगिरीसु चत्तारि ॥२॥" त्ति । 'जंबू' इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध १ महाहिमवत् २ हैमवत् ३ रोहिता ४ ही ५ हरिकान्ता ६ हरि ७ वैडूर्य ८ कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति । 'एव'मित्यादि, एवंकरणात् 'जंबू' इत्यादिरभिलापो दृश्यः, निषधवर्षधरपर्वते हि सिद्ध १ निषध २ हरिवर्ष ३ प्राग्विदेह ४ हरि ५ धृति ६ शीतोदा ७ अपरविदेह ८ रुचकाख्यानि ९ स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति । 'जंबू'इत्यादि, नीलवर्षधरपर्वते हि सिद्ध १ नील २ पूर्वविदेह ३ शीता ४ कीर्ति ५ नारीकान्ता|६ ऽपरविदेह ७ रम्यक ८ उपदर्शना ९ ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति। 'एव'मित्यादि, रुक्मिवर्षधरे हि सिद्ध १ रुक्मि २ रम्यक ३ नरकान्ता ४ बुद्धि ५ रौप्यकूला ६ हैरण्यवत् ७ मणिकाञ्चनकूटा ८ ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति । 'एव'मित्यादि शिखरिणि हि वर्षधरे सिद्ध १ शिखरि २ हैरण्यवत ३ सुरादेवी ४ रक्ता ५ लक्ष्मी ६ सुवर्णकूला ७ रक्तोदा ८ गन्धापाति ९ ऐरावती १० तिगिच्छिकूटा ११ ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति ॥
१ वैताये माल्यवति । विद्युत्प्रभे निषधे नीलवति च नव नव कूटानि भणितानि एकादश शिखरि हिमवति ॥ १॥ रुक्मिमहाहिमवतोः सौमनसगन्धमादनमानगयोः । अष्टाष्ट सप्त सप्त च वक्षस्कारगिरिषु चत्वारि ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org