Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
४च्छेण निव्वेओ ॥१॥ खित्तंमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । दीवायणो य काले भावे मंडुकियाखमओ RI॥२॥" [ द्रव्यापाये द्वौ वणिग्भ्रातरौ धननिमित्तं । वधपरिणतौ एकैकस्मिन् हृदे मत्स्येन निर्वेदः॥१॥ क्षेत्रे
अवक्रमणं दशाहवर्गस्य भवत्यपरस्याम् । द्वीपायनश्च काले भावे मण्डूकिकाक्षपकः॥२॥] इति, 'उवाएं'त्ति उपाय:उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत् , उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्दैव, तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगश्चैवम्-अस्ति सुवर्णादिषूपायः उपायेनैव वा सुवर्णादौ प्रवर्तितव्यं, तथाविधधातुवादसिद्धादिवदिति, एवं क्षेत्रोपायः-क्षेत्रपरिकर्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं कालोपाय:-कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूत|गणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन | विज्ञातचौरादिभावाभयकुमारवदिति, तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्व कफलादिसमृद्धारामस्याम्रफलानां अकालाम्रफलदोहदवद्भार्यादोहदपूरणार्थ चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थ नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत् , तथाहि-काचिद् वृद्धकुमारिका
555555
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580