Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानागसूत्रवृत्तिः
॥२८३॥
मारादीनामिवेति । तथा मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपक्षस्यानिर्देश्यस्य रूपादेः अव इति-प्रथमतो ग्रहणं- W४ स्थाना० परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा प्रक्रान्तार्थविशेषनिश्चयोऽवायः अ- उद्देशः४ वगतार्थविशेषधरणं धारणेति, उक्तञ्च-“सामन्नत्थावगहणमोग्गहो भेयमग्गणमिहेहा । तस्सावगमोऽवाओ अविच्चुई | कर्मसङ्घः धारणा तस्स ॥१॥” इति । [सामान्येनार्थावग्रहणमवग्रहो भेदमार्गणमिहेहा तस्यावगमोऽवायोऽविच्युतिर्धारणा बुद्धिः तस्य ॥१॥] तथा अरञ्जरम्-उदकुम्भो अलञ्जरमिति यत्प्रसिद्धं तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधरण- जीवाः सामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सहितं शीघ्रं निष्ठितं चेति, विदरो-नदीपुलिनादौ जलार्थों सू० ३६५ गतः तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पं तथाऽपरापरमल्पमल्प स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्च प्रायः| सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति । यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैताने, नवरं मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदकाः-सिद्धादयः । चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शनं तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि तद्दर्शनवन्त एकेन्द्रियादय इति । संयताः-सर्वविरताः असंयता-अविरताः संयतासंयता-देशविरताः त्रयप्रतिषेधवन्तः सिद्धा इति ॥ जीवाधिकाराजीवविशेषान् पुरुषभेदान् चतुःसूच्याऽऽह
--
-
For Personal & Private Use Only
www.jainelibrary.org
Jain Educationalone

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580