Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना-
ङ्गसूत्र
वृत्तिः
॥२८२॥
निदानपरिणामलक्षणपापरहितेन च चेतसा वर्तत इति समनसस्तथा समानं-स्वजनपरजनादिषु तुल्यं मनो येषां ते ४ स्थाना. समनसः, उक्तञ्च-"तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे य समो समो य | उद्देशः ४ माणावमाणेसुं ॥१॥" [तदा श्रमणः यदि सुमनाः भावेन यदि न भवति पापमनाः । स्वजने जने च समः समश्च कर्मसङ्घः मानापमानयोः॥१॥] अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्त्तन्त इति समणाः, आह च-"नत्थि बुद्धिः य सि कोइ वेसो पिओ व सब्बेसु चेय जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥१॥" [नास्ति जीवा |च तस्य कोऽपि द्वेष्यः प्रियो वा सर्वेष्वपि जीवेषु । एतेन भवति समनाः एषोऽन्योऽपि पर्यायः॥१॥] इति,||| सू० ३६५ प्राकृततया सर्वत्र समणत्ति, एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्रावकाः, उक्तञ्च-"अवाप्तदृष्ट्यादिविशुद्धसम्पत् , परं समाचारमनुप्रभातम् । शृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः ॥१॥” इति, अथवा श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, तथा वपन्ति-गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति कास्ततः कर्मधारये श्रावका इति भवति, यदाह-"श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा ॥१॥” इति, एवं श्राविका अपीति, तथा उत्पत्तिरेव प्रयोजनं यस्याः सा औपत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, अपि च-बुद्ध्युत्पादा
॥२८२॥ त्पूर्व स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थों गृह्यते यया सा लोकद्वयाविरुद्धै
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580