Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
रणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गलसङ्ख्येयभागप्रमाणानीति । अनन्तरं देववक्तव्यतोक्का, देवाश्चाकायतयाऽप्युसद्यन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी'त्यादि सूत्रद्वयमाह
चत्तारि उदकगब्भा पं० सं०-उस्सा महिया सीता उसिणा, चत्तारि उदकगब्भा पं० त० हेमगा अब्भसंथडा सीतोसिणा पंचरूविता,-माहे उ हेमगा गन्मा, फग्गुणे अब्भसंथडा । सीतोसिणा उ चित्ते, वतिसाहे पंचरूविता ॥१॥ (सू० ३७६) चत्तारि माणुस्सीगब्भा पं० तं०-इत्थित्ताए पुरिसत्ताए णपुंसगत्ताते बिंबत्ताए,-अप्पं सुकं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुकं, पुरिसो तत्थ पजातति ॥ १॥ दोण्हंपि रत्तसुक्काणं, तुल्लभावे णपुंसओ।
इत्थीतोतसमाओगे, बिंबं तत्थ पजायति ॥ २॥ (सू० ३७७) 'दगगन्भ'त्ति दकस्य-उदकस्य गर्भा इव गर्भा दकगर्भाः-कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्वमिति, अवश्यायः-क्षपाजलं महिका-धूमिका शीतान्यात्यन्तिकानि एवमुष्णा-धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षणाव्याहताः सन्तः षद्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम्-“पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः । जलमत्स्येन सहोक्ताः दशधा धातुप्रजनहेतुः॥१॥" तथा-"शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्वं गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः॥१॥" तथा "सप्तमे २ मासे, सप्तमे २ऽहनि । गर्भाः पाकं नियच्छन्ति, यादृशास्तादृशं फलम् ॥१॥" हिम-तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, "अब्भसंथड'त्ति अभ्रसंस्थितानि मेघै|राकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां-गर्जितविद्युजलवाताभ्रलक्षणानां समाहारः पञ्चरूपं
*OISIASAASAASAASAASAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 573 574 575 576 577 578 579 580