Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 551
________________ POSALORESMSRLMCAMSUGALS भावना भणिता ॥१॥] आसाञ्च मध्ये यो यस्यां भावनायां वर्त्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद, उक्तञ्च-"जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहंचि । सो तबिहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥१॥" [यः संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु सुरेषु गच्छति भक्तश्चरणहीनः॥१॥] इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह-'चउहिं ठाणेही त्यादि कण्ठ्यं, नवरं असुरेषु भव आसुरः-असुरविशेषस्तद्भावः आसुरत्वं तस्मै आसुरत्वाय त-15 दर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कम्में-तदायुष्कादि प्रकुर्वन्ति-कर्जुमारभन्ते, तद्यथा-क्रोधनशीलतयाकोपस्वभावत्वेन प्राभृतशीलतया-कलहनसम्बन्धतया संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन81 निमित्ताजीवनतया-त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्तः-"अणुबद्धविग्गहोंविय संसत्ततवो निमित्तमाएसी । निक्किवणिराणुकंपो आसुरियं भावणं कुणइ ॥१॥"[अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपः निरनुकंपः आसुरिकी भावनां करोति ॥१॥] इति, तथा अभियोग-व्यापारणमहन्तीत्याभियोग्याः-किङ्करदेवविशेषास्तद्भावस्तत्ता तस्यै तया वेति, आत्मोत्कर्षेण-आत्मगुणाभिमानेन परपरिवादेन-परदोषपरि-1, कीर्तनेन भूतिकर्मणां-ज्यरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तं परस्नपनकादिकरणे नेति, इयमप्येवमन्यत्र-“कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी । इड्डिरससायगरुओ अभिओगं भावणं कुणइ8 F॥१॥” इति [प्रश्नोऽष्ठप्रश्नादिरितरः स्वमविद्यादिरिति> [ कौतुकं भूतिकर्म प्रश्नः इतर (स्वप्नादिः) निमित्ताजीवी Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580