Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 563
________________ तीत्येवं संयोगाः, यथा सङ्गमक एवं विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति, तथा मानुष्या हासात् यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च राज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिल ब्राह्मणेन व्यपरोपितः, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्म्मपरीक्षार्थं लिङ्गिनोsन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति, कुशीलम् - अब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भावः कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः अथवा कुशीलप्रतिषेवणयेति व्याख्येयं यथा सन्ध्यायां वसत्यर्थ प्रोषितस्येर्ष्यालोगृहे प्रविष्टः साधुश्चतसृभिर्ष्यालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुरूपसग्गितो न च क्षुभितः, तथा तैरश्चा भयात् श्वादयो दशेयुः प्रद्वेषाचण्डकौशिको भगवन्तं दष्टवान् आहारहेतोः सिंहादयः अपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणि गले वा मांसाङ्कुरादि जातं घट्टयतीति प्रपतनता प्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनात् दुःखमुत्पद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्लेषणया वा यथा पादमाकुञ्चय स्थितो वातेन तथैव पादो लगित इति, भवन्ति चात्र गाथा: - "हास १ पदोस २ वीमंसओ ३ विमायाय ४ वा भवे दिव्वो । एवं चिय माणुस्सो कुसीलपडि सेवणचउत्थो ॥ १ ॥ तिरिओ भय १ प्पओसा २ ऽऽहारा ३ ऽवच्चादिरक्खणत्थं वा ४ । घट्टण १ थंभण २ पवडण ३ लेसणओ वाऽऽयसंचेओ ४ ॥ २ ॥ दिव्वंमि वंतरी १ संगमे २ गजइ ३ लोभणादीया ४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580