Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
4-+4 +55+5+55+4+4+%
तयाऽसार इत्यर्थः, तुच्छोऽप्येवमेवेति । पुरुषो धनश्रुतादिभिः पूर्णः प्रियार्थः कश्चिप्रियवचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति ८। पूर्णोऽपि जलादेर्विष्यन्दते-श्रवति, इह तुच्छ:-तुच्छजलादिः स एव विष्पन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ । पुरुषस्तु पूर्णोऽप्येको वि-1* प्यन्दते-धनं ददाति श्रुतं वा अन्यो नेति तुच्छोऽपि-अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति १०॥ तथा भिन्नः-स्फुटितः जर्जरितो-राजीयुक्तः परिश्रावी-दुष्पकत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति ११ । चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्त्या परिस्रावि सूक्ष्मातिचारतया अपरिस्रावि निरतिचारतयेति, इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२ । तथा मधुन:-क्षौद्रस्य कुम्भो मधुकुम्भो मधुभृतं मध्वेव वा पिधानं-स्थगनं यस्य स मधुपिधानः एवमन्ये त्रयः १३ । पुरुषसूत्रं स्वयमेव 'हिय'मित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं-मनः अपापम्-अहिंस्रमकलुषम्-अप्रीतिवर्जितमिति, जिह्वाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापं च जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधादिति १४ । अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउब्बिहा उवसग्गे'त्यादि सूत्रपञ्चकमाह
चउब्विहा उवसग्गा पं० तं०-दिव्वा माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा १, दिव्वा उवसग्गा चउब्विहा पं०
Jain Education Internal
For Personal & Private Use Only
mainelibrary.org

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580