SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ 4-+4 +55+5+55+4+4+% तयाऽसार इत्यर्थः, तुच्छोऽप्येवमेवेति । पुरुषो धनश्रुतादिभिः पूर्णः प्रियार्थः कश्चिप्रियवचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति ८। पूर्णोऽपि जलादेर्विष्यन्दते-श्रवति, इह तुच्छ:-तुच्छजलादिः स एव विष्पन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ । पुरुषस्तु पूर्णोऽप्येको वि-1* प्यन्दते-धनं ददाति श्रुतं वा अन्यो नेति तुच्छोऽपि-अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति १०॥ तथा भिन्नः-स्फुटितः जर्जरितो-राजीयुक्तः परिश्रावी-दुष्पकत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति ११ । चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्त्या परिस्रावि सूक्ष्मातिचारतया अपरिस्रावि निरतिचारतयेति, इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२ । तथा मधुन:-क्षौद्रस्य कुम्भो मधुकुम्भो मधुभृतं मध्वेव वा पिधानं-स्थगनं यस्य स मधुपिधानः एवमन्ये त्रयः १३ । पुरुषसूत्रं स्वयमेव 'हिय'मित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं-मनः अपापम्-अहिंस्रमकलुषम्-अप्रीतिवर्जितमिति, जिह्वाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापं च जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधादिति १४ । अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउब्बिहा उवसग्गे'त्यादि सूत्रपञ्चकमाह चउब्विहा उवसग्गा पं० तं०-दिव्वा माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा १, दिव्वा उवसग्गा चउब्विहा पं० Jain Education Internal For Personal & Private Use Only mainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy