Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 514
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ २५६ ॥ वाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता ततः कदाचित् विवाहिता सती पतिमापृच्छय रात्रावारामपतिपार्श्वे गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ तत ईष्यालुप्रभृतयः पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इतिकृत्वा तं बन्धयामासेति, अत्रापि गाथे— “एमेव चउविगप्पो होइ उवाओऽवि तत्थ दव्वम्मि । धाउव्वाओ पढमो जंगलकुलिएहिं खेत्तं तु ॥ १ ॥ कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ । चोरस्स कए पट्टिय वहुकुमारिं परिकहिंसु ॥ २ ॥” [ एवमेव चतुर्विकल्पो भवत्युपायोऽपि तत्र द्रव्ये धातुवादः प्रथमः लांगूलकुलिकैः क्षेत्रं तु ॥ १ ॥ कालोऽपि नालि - कादिभिः भवति भावे पंडितोऽभयः चौरस्य कृते नृत्ये वृद्धकुमारीकथां परिचख्यौ ॥ २ ॥ ] इति । 'ठवणाकम्मे 'त्ति स्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म्म-करणं स्थापनाकर्म्म येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकम्र्मेति भावः तच्च द्वितीयाङ्गे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यं तत्र द्युक्तमस्ति -काचित्पुष्करिणी कईमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थं चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकर्द्दममार्गैः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्द्दम एवामोघवचनतया तदुद्धृतवानिति Jain Education International For Personal & Private Use Only ४ स्थाना० उद्देशः ३ आहरण भेदाः सू० ३३८ ।। २५६ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580