________________
*
वातादिस्वरूपं चैतत्-"तत्र रूक्षो १ लघुः २ शीतः ३ खरः ४ सूक्ष्म ५ श्चलो ६ऽनिलः । पित्तं सस्नेह १ तीक्ष्णो २ष्णं | ३ लघ । विनं५सरं ६ द्रवम् ७ ॥१॥ कफो गुरु १ हिमः२ स्निग्धः ३ प्रक्लेदी ४ स्थिर ५ पिच्छिलः ६ । सन्निपातस्तु सङ्कीर्णलक्षणो ब्यादिमीलकः ॥२॥" वातादीनां कार्याणि पुनरिमानि-“पारुष्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः।। सुप्तत्वशीतत्वखरत्वशोषाः, कर्माणि वायोः प्रवदन्ति तज्ज्ञाः॥१॥ परिस्रवस्वेदविदाहरागा, वैगन्ध्यसक्लेदविपाक-18 कोपाः। प्रलापमूर्छाभ्रमिपीतभावाः, पित्तस्य कर्माणि वदन्ति तज्ज्ञाः॥२॥ श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः। उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः॥३॥” इति । अनन्तरं व्याधिरुक्तः, अधना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह-'चउविहे'त्यादि, कण्ठ्यं, नवरं चिकित्सा-रोगप्रतीकारस्तस्याश्चातुविंध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि-"भिषम् १ द्रव्याण्यु २ पस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् ॥ १॥ दक्षो १ विज्ञातशास्त्रार्थो २, दृष्टका ३ शुचि ४ भिषक् । बहुकल्पं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४ ॥२॥ अनुरक्तः १ शुचि २ दक्षो ३, बुद्धिमान् ४ परिचारकः । आब्यो १४ रोगी भिषग्वश्यो २, ज्ञापकः ३ सत्त्ववानपि ४॥३॥” इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं,'निविगइ निब्बलोमे तवउद्धट्ठाणमेव उभामे । वेयावच्चाहिंडण मंडलि कप्पट्ठियाहरणं ॥१॥" इति [ निर्बलंवल्लादि, अवमम्-ऊन उद्भामो-भिक्षाभ्रमणम् आहिंडणं देशेषु मण्डली-सूत्रार्थयोः 'कप्पडिया' श्रेष्ठिवधूरिति> [[निर्विकृतिक वल्लादि न्यूनं आचामाम्लादि कायोत्सर्गः विहारम्वयावृत्त्यं भिक्षाभ्रमः मंडली (मोहचिकित्सैषा) कुलपुत्रि
*
*
*
*
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org