Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 528
________________ श्रीस्थानागसूत्रवृत्तिः रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह-'अहे' इत्यादि सुगमं, किन्तु अधोलोके-उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरका-नरकावासा नैरयिका-नारका एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वमिति, तथा अशुभाः पुद्गलाः-तमिश्रभावेन परिणता इति । 'मणि'त्ति मणयः-चन्द्रकान्ताद्याः, 'जोइ'त्ति ज्योतिरनिरिति ॥ चतुःस्थानकस्य तृतीयोदेशको विवरणतः समाप्त इति ॥ ॥२६३॥ ४ स्थाना० उद्देशः ३ संख्यानानि अन्धकारोद्योतकारकाः सू० ३३९. ३४० व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापि त एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं चत्तारि पसप्पगा पं० सं०-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए । (सू० ३३९) णेरतिताणं चउठिवहे आहारे पं० २०-इंगालोवमे मुम्मरोवमे सीतले हिमसीतले, तिरिक्खजोणियाणं चउविहे आहारे पं० तं०-कंकोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साणं चउब्विहे आहारे पं० तं०-असणे जाव सातिमे, देवाणं चउब्विहे आहारे पं० २०-वन्नमंते गंधमंते रसमंते फासमंते । (सू० ३४०) चत्तारि जातिआसीविसा पं० ॥२६३॥ Jain Education a l For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580