SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह-'अहे' इत्यादि सुगमं, किन्तु अधोलोके-उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरका-नरकावासा नैरयिका-नारका एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वमिति, तथा अशुभाः पुद्गलाः-तमिश्रभावेन परिणता इति । 'मणि'त्ति मणयः-चन्द्रकान्ताद्याः, 'जोइ'त्ति ज्योतिरनिरिति ॥ चतुःस्थानकस्य तृतीयोदेशको विवरणतः समाप्त इति ॥ ॥२६३॥ ४ स्थाना० उद्देशः ३ संख्यानानि अन्धकारोद्योतकारकाः सू० ३३९. ३४० व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापि त एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं चत्तारि पसप्पगा पं० सं०-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए । (सू० ३३९) णेरतिताणं चउठिवहे आहारे पं० २०-इंगालोवमे मुम्मरोवमे सीतले हिमसीतले, तिरिक्खजोणियाणं चउविहे आहारे पं० तं०-कंकोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साणं चउब्विहे आहारे पं० तं०-असणे जाव सातिमे, देवाणं चउब्विहे आहारे पं० २०-वन्नमंते गंधमंते रसमंते फासमंते । (सू० ३४०) चत्तारि जातिआसीविसा पं० ॥२६३॥ Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy