SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४च्छेण निव्वेओ ॥१॥ खित्तंमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । दीवायणो य काले भावे मंडुकियाखमओ RI॥२॥" [ द्रव्यापाये द्वौ वणिग्भ्रातरौ धननिमित्तं । वधपरिणतौ एकैकस्मिन् हृदे मत्स्येन निर्वेदः॥१॥ क्षेत्रे अवक्रमणं दशाहवर्गस्य भवत्यपरस्याम् । द्वीपायनश्च काले भावे मण्डूकिकाक्षपकः॥२॥] इति, 'उवाएं'त्ति उपाय:उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत् , उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्दैव, तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगश्चैवम्-अस्ति सुवर्णादिषूपायः उपायेनैव वा सुवर्णादौ प्रवर्तितव्यं, तथाविधधातुवादसिद्धादिवदिति, एवं क्षेत्रोपायः-क्षेत्रपरिकर्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं कालोपाय:-कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूत|गणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन | विज्ञातचौरादिभावाभयकुमारवदिति, तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्व कफलादिसमृद्धारामस्याम्रफलानां अकालाम्रफलदोहदवद्भार्यादोहदपूरणार्थ चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थ नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत् , तथाहि-काचिद् वृद्धकुमारिका 555555 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy