SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ।। २५५ ।। अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत्, कालापायो यथा - सापायकालवर्जने यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो रुद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेत् महानागवत् नागदत्तक्षुल्लकवद्वेति, तथाहि -किल कश्चित् क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्यन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूत्पन्नोऽनन्तरं च्युतो जातिस्मरदृष्टिविषसर्पतयोत्पन्नः सर्पदष्टमृतपुत्रेण च सर्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो दृष्टकोपविपाकतया च मदृष्टिविषेण मा घातकपुरुषविघातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथानिर्गमं च खण्ड्यमानः कोपलक्षणभावापायं परिहृतवानिति, तथा स एवानन्तरं नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रत्रज्यो |ऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाच्चात्यन्तक्षुधा लुरादित्योदयादस्तमयं यावद् भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्येर्ष्याविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च म त्सराद्भोजनमध्यनिष्ठ्यतनिष्ठीवनोऽत्यन्तोपशान्तचित्तवृत्तितया यः सञ्जातकेवलः पुर्देवतावन्दितस्तेषामपि क्षपकाणां संवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति, अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इह - " देव्वावाए दुन्नि उ वाणियगा भायरो धणनिमित्तं । वहपरिणयमेक्कमिकं दहंमि म . Jain Education International For Personal & Private Use Only ४ स्थाना० उद्देशः ३ आहरण भेदाः सू० ३३८ ।। २५५ ।। www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy