________________
समानं वर्त्तते, ततश्च क एषां विशेषः ?, आह च - " अभिहाणं दव्वत्तं तदत्थसुन्नत्तणं च तुल्लाई । को भाववज्जियाणं नामाईणं पइविसेसो ? ॥ १ ॥” इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्त्तुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्त्तन्ते फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात् न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्थं भेद इति, आह च - "आंगारोऽभिप्पाओ बुद्धी किरियाफलं च पाएणं । जह दीसइ ठवणिंदे न तहा नामे न दविंदे ॥ १ ॥” इति यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं विशेष इति, आह च - " भावस्स कारणं जह दव्वं भावो य तस्स पज्जाओ । उवओगपरिणतिमओ न तहा नामं न वा ठवणा ॥ १ ॥” इति ॥ उक्ता नामस्थापनाद्रव्येन्द्राः, इदानीं भावेन्द्रं त्रिस्थानकावतारेणाह -'तओ इंदे त्यादि कण्ठ्यं, नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः - परमेश्वरो ज्ञानेन्द्रः - अतिशयवच्छ्रुताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, एवं दर्शनेन्द्रः - क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो - यथाऽऽख्यात चारित्रः, एतेषां च भावेन सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः - परमार्थतो वेन्द्रत्वात् सकलसंसार्यप्राप्त पूर्वगुणलक्ष्मीलक्षणपरमैश्वर्य
१ अभिधानं द्रव्यत्वं तदर्थशून्यत्वं च तुल्यानि को भाववर्जितानां नामादीनां प्रतिविशेषः ? ॥ १ ॥ ( येन भेदास्त्रयस्ते ) । २ आकारोऽभिप्रायो बुद्धिः क्रियाफलं च यथा प्रायः स्थापनेन्द्रे दृश्यते न तथा नामेन्द्रे न द्रव्येन्द्रे ॥ १ ॥ ३° पूर्वश्व प्र. ४ भावस्य कारणं यथा द्रव्यं भावश्च तस्य पर्यायः उपयोगपरिणतिमयो न तथा नाम न वा स्थापनेति ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org