________________
श्रीस्थानानसूत्र
वृत्तिः ॥१५९॥
मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीनि, उपहननमुपघाता, पिण्डशय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः ३ स्थानपिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकादयः षोडश दोषाः, उक्तं च-"तत्थुग्गमो पसूई पभवो एमादि होंति एगट्ठा । काध्ययने सो पिंडस्सिह पगओ तस्स य दोसा इमे होंति ॥१॥ आहाकम्मु १ देसिय २ पूइकम्मे य ३ मीसजाए य ४ । ठवणा | | उद्देशः ४ ५ पाहुडियाए ६ पाओयर ७ कीय ८ पामिच्चे ९॥२॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे इय १३ ।
सू० १९६ अच्छेजे १४ अनिसढे १५ अज्झोयरए य १६ सोलसमे ॥३॥” इति, इह चाभेदविवक्षया उद्गमदोषा एवोगमः अतस्तेनोद्गमेनोपघातः-पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमुद्गमोपघाता, उद्गमस्य वा-पिण्डादिप्रसूतेरुपघातः-आधाकर्मत्वादिभिर्दुष्टता उद्गमोपघातः, एवमितरावपि, केवलमुत्सादना-सम्पादनं गृहस्थापिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादयः षोडश, यदाह-"उप्पायण संपायण णिवत्तणमो य होति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होंति ॥१॥धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हवंति दस एए॥२॥ पुब्धि पच्छा संथव ११ विज्जा १२ मते य १३ चुन्न १४ जोगे य १५।। उप्पायणाय दोसा सोलसमे मूलकम्मे य॥३॥” इति, तथा एषणा-गृहिणा दीयमानपिण्डादेग्रहणं तदोषाः शङ्किता__१ तत्रोद्गमः प्रसूतिः प्रभव इत्यादीन्येकार्थानि भवन्ति स पिंडस्येह प्रकृतः तस्य च दोषा इमे भवन्ति ॥१॥ आधाकर्म औद्देशिकं पूतिकर्म च मिश्रजातश्च स्थापना प्राभृतिका प्रादुष्कृतं क्रीतं प्रामियं ॥२॥ परिवर्तितः अभ्याहृतः उद्भिन्नः मालाहृतः आच्छेद्यः अनिसृष्टः अध्यवपूरकश्च षोडशः ॥३॥ २ उत्पादना सम्पा
॥१५९॥ दना निवर्त्तना च भवंति एकार्थानि आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति ॥ १॥ धात्री दूती निमित्तं आजीविका वनीपकः चिकित्सा च क्रोधः मानः माया लोभश्च भवंति दशैते ॥२॥ ३ पूर्व पश्चाद्वा संस्तवः विद्या मत्रश्च चूर्णयोगश्च । उत्पादनायां दोषाः षोडशो मूलकर्म च ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org