________________
च पथियाय्यप्रमत्त उत्पथयायी लिङ्गावशेषः उभययायी प्रमत्तः चतुर्थः सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात. अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमयबोधापेक्षयेयं चतु-| भङ्गी नेयेति, एक पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवत् द्वितीयञ्च बकुलस्येव तृतीयं जातेरिव चतुर्थ बदर्या-I देरिवेति, पुरुषो रूपसम्पन्नो-रूपवान् सुविहितरूपयुक्तो वेति ७ जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसु पदेषु एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति, आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरं 'मुद्दियत्ति मृद्वीका-द्राक्षा तद्वत्सैव वा मधुरं मृद्वीकामधुरं क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषबहुबहुतरबहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिको वा परवैयावृत्यकरः स्वार्थनिरपेक्षः स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति, करोत्येवैको वैयावृत्त्यं निःस्पृहत्वात् १ प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २ अन्यः करोति प्रतीच्छति च स्थविरविशेषः ३ उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४, 'अट्ठकरें'त्ति अर्थान-हिताहितप्राप्तिपरिहारादीन राजादीनां दिग्यात्रादौ || तथोपदेशतः करोतीत्यर्थकर:-मन्त्री नैमित्तिको वा, स चार्थकरो नामैको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्यवहारभाष्यगाथा-"पुढापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ । तइओ
१ पृष्टोऽपृष्टो वा प्रथमो यात्रायां हिताहितं परिकथयति तृतीयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org