________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १५१ ॥
सिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां 'धार्मिका १धार्मिक २ धार्मिकाधार्मिकाणां संयतासंयतदेशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमासंयमदेशसंयमलक्षणविषयभेदाद्वा ४, व्यवसायो - निश्चयः, स च प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः, प्रत्ययात् - इन्द्रियानिन्द्रियलक्षणान्निमित्ताज्जातः प्रात्ययिकः साध्यम्-अन्यादिकम| नुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो जातमानुगामिकम् - अनुमानं तद्रूपो व्यवसाय आनुगामिक एवेति, अथवा प्रत्यक्षः - स्वयंदर्शनलक्षणः प्रात्ययिकः - आठवचनप्रभवः, तृतीयस्तथैवेति ५, इहलोके भव ऐहलौकिको - य इह भवे वर्त्तमानस्य निश्चयोऽनुष्ठानं वा स ऐहलौकिको व्यवसाय इति भावः, यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति ६, लौकिकः सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समयः - साङ्ख्यादीनां सिद्धान्तस्तदाश्रितस्तु सामयिकः, लौकिकादयो व्यवसायाः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरं अर्थधर्मकामविषयो निर्णयो यथा - " अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च । का मस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु ॥ १ ॥" इत्यादिरूपः तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यते इति ८, ऋग्वेदाद्याहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति ९, ज्ञानादीनि सामा (म) यिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव पर्यायशब्दत्वात्, दर्शनमपि श्रद्धानलक्षणं व्यवसायो, व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात् यच्चोच्यते, "सच्चरणमणुडाणं
१ तत्र विधिप्रतिषेधानुगमनुष्ठानं सच्चारित्रं.
Jain Education International
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ३
सू० १८५
॥ १५१ ॥
www.jainelibrary.org