________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
11 12 11
शविशेषवत् तद्बुद्धिमत्कारणपूर्वकं दृष्टं यथा घटः, सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्च बुद्धिमानसावीश्वरो जगत्कति, नैवम्, सन्निवेशविशेषवत्यपि वल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्च स्थानान्तरादवसेयमिति । द्विसङ्क्षयत्वाच्चन्द्रयोस्तत्परिवारस्यापि द्वित्वमाह - 'दो कत्तिए'त्यादिना 'दो भावकेऊ' इत्येतदवसानेन ग्रन्थेन, सुगमश्चायं, नवरं द्वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिए 'त्यादिगाथात्रयेण नक्षत्रसूत्रसङ्ग्रहः, कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणान्यादयोऽष्टाविंशतिरेव देवता भवन्ति, आह च द्वावग्नी १ एवं प्रजापती २ | सोमौ ३ रुद्रौ ४ अदिती ५ बृहस्पती ६ सप्प ७ पितरौ ८ भगौ ९ अर्यमणौ १० सवितारौ ११ त्वष्टारौ १२ वायू १३ इन्द्राग्नी १४ मित्रौ १५ इन्द्रौ १६ निर्ऋती १७ आपः १८ विश्वौ १९ ब्रह्माणौ २० विष्णू २१ वसू २२ वरुणौ २३ अजौ २४ विवृद्धी २५ ग्रन्थान्तरे अहिर्बुभावुक्तौ, पूषणौ २६ अश्विनौ २७, यमाविति २८, ग्रन्थान्तरे पुनरश्विनीत आरभ्यता एवमुक्ताः, “अश्वियमदहन कमलज शशिशूलभृददितिजीव फणिपितरः योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राख्याः ॥ १ ॥ ऐन्द्रो निर्ऋतिस्तोयं विश्वो ब्रह्मा हरिर्वसुर्वरुणः । अजपादोऽहिर्बुभः पूषा चेतीश्वरा भानाम् ॥ २ ॥” अङ्गारकादयोऽष्टाशीतिर्ग्रहाः सूत्रसिद्धाः, केवलमस्मद्द्दष्ट पुस्तकेषु केषुचिदेव यथोक्तसङ्ख्या संवदतीति सूर्य प्रज्ञत्यनुसारेणासाविह संवादनीया, तथाहि तत्सूत्रम् - " तत्थ खलु इमे अट्ठासीई महागहा पन्नत्ता, तंजहा इंगालए १ वियालए २ लोहियक्खे ३ सणिच्छरे ४ आहुणिए ५ पाहुणिए ६ कणे ७ कणए ८ कणकणए ९ कणवियाणए १० कणसंताणए ११ सोमे १२ सहिए १३ अस्सासणे १४ कज्जोयए १५ कब्बडए १६ अयकरए १७ दुंदुभए १८ संखे १९ संखवण्णे
Jain Education International
For Personal & Private Use Only
२ स्थान
काध्ययने
उद्देशः ३
चन्द्रादित्य
नक्षत्रादि
स्वरूपं
11 12 11
inelibrary.org