Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका ]
( ३ )
च्यते । सैव सर्वेणापि श्रीजैन सङ्केनाराधनार्थमपेक्ष्यते । अथ लौकिक टिप्पणे यदा काचित्तिथिः क्षीणेति निर्दिश्यते तदा तस्यास्सूर्योदयस्पर्शित्वमेव नास्ति । तदभावाञ्च्चौदयिकीत्वासम्भवः । न च क्षीणतिथिगतमाराधनं क्षीयते । कथं नाम तादृशी क्षीणा तिथिरौदयिकी स्यादिति विचार्यमाणे मीमांसकप्रणालिका मनुसृत्य " विधिरत्यन्तमप्राप्ते” इत्यपूर्वविधिविधायकेन " क्षये पूर्वा तिथिः कार्या” शास्त्रेण क्षीणा अष्टम्यादितिथिः पूर्वस्यां सप्तम्यादौ विधीयते । अन्यथा औदयिकतिथेरसम्भवादाराधनाविनाशदोषः श्राद्धं संस्पृशेदिति । तत्रानेनापूर्वविधिविधायकेन शास्त्रेण सप्तम्यास्सप्तमीत्वं केवलमष्टम्याराधनानिमित्तमेव निराकृत्याष्टमीत्वं स्थाप्यते । एवञ्च लौकिकटिप्पणप्राप्ता औदयिकी सप्तमी अष्टम्याराधनाविषये औदयिक्येवाष्टमी भवति । तदैव तत्राष्टमीगतं तपआदिकमनुष्ठानं सम्भवतीति अपूर्वविधिद्वारैव क्षये सत्यष्टमीप्राप्तिः” इत्यादि ब्रुवता विचारोऽयं मीमांसकप्रणालिकामनुसृत्य क्रियत इति पूर्वस्यां सप्तम्यादावुत्तराष्टम्यादिः क्षीणा तिथिर्विधीयत इत्यभिप्रेयते । सर्वथा तदसङ्गतं मीमांसाप्रणालीविरुद्धं च । न ह्येकस्यां तिथावपरा तिथिर्विधातुं शक्यते । न ह्येकस्मिन् धर्मिणि धर्म्यन्तरविधानं सम्भवति । न वा सप्तमी विधिशतेनाप्यष्टमीकर्तुं शक्यते । न ह्यागमास्सहसा घटं पटयितुमीशते इति न्यायात् । अतस्सप्तम्यामष्टमीविधानं सर्वथा बाधि तमेव । अथैवमुच्येत - न सप्तम्यामष्टमी विधीयते किन्तु सप्तमीत्वमपहायाष्टमीत्वं विधीयत इत्येव वाक्यतात्पर्यमिति । तदपि न सङ्गच्छते। अष्टम्यादिशब्दा हि तिथिपराः । तिथिर्नाम अमासंज्ञकचन्द्रकलाव्यतिरिक्तचन्द्रकलानां मध्ये एकैकस्याः कलायास्सूर्यमण्डलेनाद्यावयव विप्रकर्षादारभ्यान्त्यावयवविप्रकर्षः, आद्यावयवसन्निकर्षादारभ्यान्त्यावयवसन्निकर्षो वा यावता कालेन सम्भवति तावान् कालः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
"
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74