Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका ]
(१७) स्मृतेर्वेदविरोघे तु, परित्यागो यथा भवेत् । तथैव लौकिकं वाक्यं, स्मृतिबाधे परित्यजेत् ॥ एकादश्यष्टमी षष्ठी, पौर्णमासी चतुर्दशी। अमावास्या तृतीया च, ता उपोष्याः परात्विताः ॥. अन्याश्च तिथयस्सर्वा, उपोष्याः पूर्वसंयुताः।
सा तिथिस्तच्च नक्षत्रं, यस्यामभ्युदितो रविः ॥ . इत्यादिभिर्वचननिचयैर्वैदिकसम्प्रदायेऽपि सन्दिग्धानां परस्परविरुद्धानां वा विषयाणां धर्मशास्त्रकनिर्णेयत्वावगमात् । अत एवं धर्मशास्त्राविरुद्धस्यैव ज्योतिश्शास्त्रस्य प्रामाण्यमुररीकृतं शास्त्रेषु । एवं च टिप्पणे गणनानुसारेण कस्याश्चित्तिथेरौदयिकीत्वे प्राप्तेऽपि तदपोद्य शास्त्रेण यद्यन्यत्र तद्विधीयेत तदेव ग्राह्यं भवेत् । यथा वैदिकसम्प्रदाये पर्वण्यौदयिके कुर्युश्श्रावणं तैत्तिरीयकाः। इति शास्त्रेणौदयिक्यां पूर्णिमायां तैत्तिरीयशाखिनामुपाकर्म विहितम् । औदयिकीत्वं च तद्दिनीयसूर्योदयकालसम्बन्धमात्रेणापि सिध्यत्येव । तच्च पञ्चाङ्गमात्रेणापि ज्ञातुं शक्यते । न तु तावन्मात्रेणं तस्या औदयिकीत्वम् । किन्तु "श्रावणी पौर्णमासी तु, सङ्गवात्परतो यदि । तदैवौदयिकी ग्राह्या, नान्यदौदयिकी भवेत्" इति धर्मशास्त्रवचनेन उदयादिसगवान्तकालव्यापिन्या एवौदयिकीत्वबोधनात् तस्या एवौदयिकीत्वम् । न केवलोदयमात्रस्पर्शिन्या इति सर्वैरङ्गीकारात् । उक्तं हि स्मृतिमुक्ताफले पूर्वोदाहतवचनोद्धरणपूर्वकं "तदेवं उदयादिद्वादशघटिकाधिककिञ्चित्कालव्यापिन्याः पौर्णमास्या एवौदयिकीत्वम् । तस्यामेव यजु
शाखिनामुपाकर्म, उदयादिद्वादशघटिकाधिककिञ्चित्कालव्यापिनि हस्तनक्षत्रे छन्दोगानामिति । तद्वदेवात्रापि, "क्षये पूर्वा" इत्युमास्वातिप्रघोषरूपेण शास्त्रेणावबोधितस्यैव प्रमाणतया स्वीकारो युक्तः । नान्यस्येत्येव युक्तरम् । अतश्च टिप्पणस्य स्वविषये सत्यपि प्रामाण्ये पारिभाषिकौदयिकीत्वविषये शास्त्रं तदनुसार्या
शा.ज.प. ३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74