Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
(२८)
[शासननन्दसूर्युपस्थापितान्येव शास्त्राणि । युक्तीश्च विचारपथमानीय तत्र स्वमनीषितं निर्णयमदान्मध्यस्थः । विवादपदेषु अष्टमनवमे एव मुख्ये विवादपदे। अन्यानि तु तदुपष्टम्भकानि । तत्राष्टमं विवादपदमेवमुपपादितं मध्यस्थेन-आचार्यश्रीसागरानन्दसूरिभिरुमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य "क्षये पूर्वी तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्यस्य श्लोकार्धस्य योऽर्थोऽभिप्रेतः सन्ति वा तदर्थसाधकानि शास्त्राणि ? विद्यते वा समर्थों जीतव्यवहारः' इति । अत्र यथा आचार्यसागरानन्दसूरिस्वीकृते पक्षे शङ्कोत्थापिता तथा पक्षान्तरेऽप्युत्थापनीया सा विवादपदतामापादनीया चासीत्। तन्नैव कृतम् । तेन स्पष्टमवगम्यते मध्यस्थस्य विचारविमर्शादेः पूर्वमेवैकपक्षकटाक्षः पक्षान्तरपतितत्वं च ।
एवं स्वाभिलषितमेव स्वमनसि विघूर्णमानं 'क्षये पूर्वा' इत्यस्यार्थविशेषं नवमविवादपदविषयतामापादयति । तदिदमशास्त्रीयम् । परपक्षद्वयनिष्ठयुक्तायुक्तत्वप्रमाणपथारूढत्वतदनारूढत्वलोकव्यवहारसिद्धत्वतदभावादिविचारपूर्वकनिर्णयप्रदानं हि मध्यस्थकार्यम् । न तु स्वाभिमतं पूर्वनिर्णीतमर्थ निर्णेतुं स्वयमेव नियोज्यते मध्यस्थः । तेन स्पष्टमिदमवगम्यते-पूर्वमेव कस्मिंश्चित् पक्षे पतित्वा तं चात्मीयं कृत्वा विशदतमेव पक्षपातिता मध्यस्थस्य ।
दशमं विवादपदमपि तदेवावद्योतयति । अन्ततो मध्यस्थस्य नैगमिको व्यापारोऽयमतितरामास्माकीनं चेतो विस्मापयति । यदयमाचार्यसागरानन्दसूरीणां मतं प्राचीनैराचार्यैर्बहुभिस्समाहतमपि नाद्रियते ।तैः प्रदर्शितानि प्रमाणानि शास्त्राणि च प्रमाणाभासता. मापादयति।जीतव्यवहारमपि तैः प्रदर्शितं नाङ्गीकरोति ।जीतव्यवहारसिद्धये च तैरुदाहृतानि शास्त्राभासान्येवेति न जीतव्यवहारसिद्धिरिति ब्रुवन् ,श्रीविजयरामचन्द्रसूरिभिस्तु स्वमतपरिपोषणाय न किमपि शास्त्रमागमो वा प्रादर्शि, केवलं स्वकल्पिताभिर्युक्तिभिरेवात्मीयामिःतचस्वमतं समर्थितं! "ते स्वाभिमतं पक्षं प्रासाप.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74