Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
(३२)
[शासनशाचार्यप्रवर्तकत्वम् (२) किमपि विशिष्टं प्रयोजनमुद्दिश्य प्रवर्तनम् (३) प्रवर्तितस्य धर्मस्य शास्त्रैस्सहाऽविरोधः (४) संविग्नगीतार्थैरप्रतिषेधित्वं बहुभिरनुमतत्वञ्चेति ते सर्वे तत्र सन्तीत्यत्र न विवादलेशोऽपि ।
(१०) रामचन्द्रसूरिपरिगृहीतस्याऽर्थस्य असंस्कृतयोधपुरीयचण्डांशुचण्डुपञ्चाङ्गस्य वाऽऽधुनिकैरेव कैश्चिज्जैनसङ्घः परिगृहीतत्वस्य मध्यस्थेनैवोकत्वात् प्राचीनाचार्यापरिग्रहाच्च तस्य जीतव्यवहारसिद्धत्वं अंशतोऽपि नास्ति । त्रिपुरुषाधिकमहापुरुषपरंपरानुष्ठितत्वस्यैव जीतव्यवहारत्वसाधकत्वात् ।
(११) श्रीमदाचार्यसागरानन्दसूरीणामभिप्रेतं मतमागमानुसार्यपि प्राचीनाचार्याहतमपि जीतव्यवहारसिद्धमपि शास्त्रीयमार्गानुसार्यपि अनभ्युपगच्छन्स्वमतपोषणाय तैः प्रदर्शितानां शास्त्राणामप्यप्रामाण्यं आभासत्वं वाऽऽपादयन् केवलयुक्तिमात्रावलम्बिनं प्राचीनाचार्यानादृतमपि शास्त्राननुगृहीतमपि श्रीआचार्यरामचन्द्रसूरिपक्षं परिपोषयन् तत्पक्षपातितामेवाऽऽत्मनो मध्यस्थः प्रकटयति । __(१२) पक्षप्रतिपक्षयोर्विचार्यतयाऽवकाशमभजतामेव विषयाणां विवादपदविषयतामापादयन् स्वमनीषितमात्रमर्थ विवादपदकोटावन्तर्भावयन् क्वचित्पूर्वापरविरुद्धं च कथयन् मध्यस्थः स्वस्य तदनहतामेवाऽऽवेदयति । एते चाऽन्ये च बहवो दोषाः मध्यस्थे, तत्कृतनिर्णयपत्रे च साधु समुद्घाटिताः पण्डितप्रवरैः शास्त्रमर्मज्ञैः श्रीतुलाकृष्णझामहोदयैः स्वकृते आगमानुसारिमतस्थापनाख्ये निबन्ध इति ते तत एवाऽवगन्तव्याः।
अतश्च "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य श्लोकार्धस्य योऽर्थः श्रीमदाचार्यसागरानन्दसूरिभिरुपवर्णितः स एवाऽऽगमानुसारी प्रमाणोShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74