Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 47
________________ (३८) [शासनतरीत्या साध्विति सम्मन्यते–श्रीमन्माध्वसम्प्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यन्यायरत्नतर्करत्न गोखामि-दामोदरशास्त्री । फा. सु. ८-२००२ काशी (११) पण्डितराजशास्त्ररत्नाकरसर्वतन्त्रस्वतनश्रीराजेश्वर शास्त्री द्राविड साङ्गवेदविद्यालय प्रिन्सिपल ।। (१२) अत्र जीतव्यवहारानुकूलं प्राचीनमतमेव युक्तमित्य स्माकं मतं गीर्वाणवाग्वर्धिनी सभासदाम् । इति तथा च पर्वतिथीनां परमार्थतो वृद्धिक्षयौ न भवतः इति सागरानन्दसूरिमतमेव युक्तमिति पर्यवसन्नं मतं प्रमाणयामः।अध्यापकरत्नं, न्यायाचार्यः हरिरामशास्त्री शुकलः (मन्त्री) साङ्गवेदविद्यालयाध्यापकः ।। (१३) व्याकरणाचार्य-व्याकरणवाचस्पति श्रीदेवनायका चार्यः (सभाध्यक्षः) (१४) साङ्गवेदविद्यालयज्योतिषाध्यापकः नीलकण्ठज्योतिर्विद् (१५) साहित्याध्यापकः साहित्यतीर्थः गोपीनाथशास्त्री मण्डे लीकर (१६) पूर्वमीमांसाचार्यः वेदान्तशास्त्री रामचन्द्रशास्त्री खनङ्गः उपाध्यक्षः गोयनकासंस्कृत कॉलेज । ८-३-४६ (१७) अथाऽस्मिन्पर्वतिथिविचारे सर्वसम्प्रदायानुसारिभिः पर्व तिथेरवश्यानुष्ठेयतया तस्याश्च शुद्धानन्तरभेदेन द्विविधतया मध्याह्नादिव्यापित्वविशेषाभावे सामान्यतयौदयिकत्वप्राप्तावन्यत्रविवादाभावेऽपि क्षयवृद्धिस्थलेप्यौदयिकत्वव्यवस्थापनयाऽवश्यानुष्ठेयत्वे क्षयपूर्वतिथेरौदयिकपर्वतियित्वविधायकतया वृद्धौ परतिथेस्तथात्वनियामकतया च शास्त्रमिदं प्रवर्तते "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरे"ति । तदिदं शास्त्रं वृद्धिक्षये पर्वतिथौ परपूर्वतिष्योरुत्ककर्षापकर्षों बोधयत्पूर्वतिथावेव वृद्धिक्षयो बोधयति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74