Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 45
________________ ( ३६ ) [ शासन मीमांसापद्धत्यनुमोदिताभिः शास्त्रयुक्तिभिः सम्यगालोच्य यन्महामहोपाध्यायपण्डितवर चिन्नस्वामिवय्यैर्व्यवस्थापितं तत्सर्वं पठित्वा मत्वा च प्राचीनाचार्यानुमोदितः पर्वतिथिवृद्धिक्षयाभावरूपो जीतव्यवहारः सर्वथा समीचीनो युक्तियुक्तश्चेति प्रतिभाति । अस्यैव व्यवहारस्यानुकरणं श्रेयस्करमितिवदति । श्रीउमेशमिश्रः महामहोपाध्यायः एम्-ए-डी-लिट्- प्रयाग विश्वविद्यालयाध्यापकः। ता. १०-३-४६ (५) महामहोपाध्यायेति बिरुदेन विभूषिताः । नानाशास्त्रसुनिष्णाता मीमांसारत्नभास्कराः ॥ सिद्धान्तस्थापनादक्षाः श्री चिन्नस्वामिशास्त्रिणः । धर्मशास्त्रं समालोच्य मीमांसाशास्त्रयुक्तिभिः॥ तिथिवृद्धिक्षयौ सूक्ष्मं प्रविचार्य्य मनीषया । अनवद्यस्वसिद्धान्तं यमत्र समुपादिशन् ॥ स जैनागमसि - द्धान्ताविरुद्धः सम्प्रवर्त्तते । निष्कम्पो युक्त्यवष्टम्भः प्रमाणेनोपबृंहितः ॥ जैनास्तदनुसारेण चरन्तः कृत्यपद्धतिम् । अवियुक्ताः स्वधर्मेण भवेयुरिति नो मतम् ॥ इति महामहोपाध्यायश्रीकालीपदतर्काचार्य्यशर्मणाम् कलिकाताराजकीयसंस्कृतमहाविद्यालयप्राच्य विभागीयप्रधानाध्यापकानाम् । २९-३-४६ (६) जैनसम्प्रदायानुसारितिथिवृद्धिक्षयविषयकं व्यवस्थापत्रमिदं सम्यगवलोकितं मया । तत्र सर्वे विषयाः प्राचीनजैनाचार्यानुमोदिताः मीमांसाशास्त्रपद्धत्या साधु परिशीलिताः शास्त्रीयसंप्रदायानुगताः सत्तर्कोपबृंहिताः सहृदयहृदयंगमाश्च परिदृश्यन्ते । अतः प्राचीनसदाचारानुष्ठानश्रद्धालुभिरार्हतसमयानुसारिभिः सर्वैस्समादरणीयमिदं व्यवस्थापत्रमिति सुदृढं विश्वसिमि । अपि च, व्यवस्थापत्रमिदं आचारशास्त्रार्थव्यवस्थापनापेक्षितानभिष्वंगादिगुणभावितमिति सुधियः स्वत एव विदांकुर्युः । इति श्रीरामनर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74