Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका]
(३५) निर्णयः कश्चित्प्रदीयते । विश्वसिमो वयम् शास्त्रीयसंस्कारसंस्कृतमतिवैभवा विद्वत्तल्लजा निर्णयमिममवलोक्य परितुष्येयुः। गुणैकपक्षपातिनो विद्वन्मणय उभयेऽप्याचार्या मुदितान्तरङ्गा भवेयुः, जैनसङ्गाश्च व्यवस्थामिमां यथावदवबुध्य वीतशङ्काः स्वस्वानुष्ठेयं तपःप्रभृतिकं कर्मानुष्ठाय, स्वाभिलषितं फलमैहिकमामुष्मिकं वा संप्राप्य कृतकृत्या भवेयुरिति ॥ (१) चिन्नवामिशास्त्री महामहोपाध्यायः, शास्त्ररत्नाक
रादिबिरुदान्वितः, अध्यक्षो हिन्दुविश्वविद्यालयधर्मविज्ञानविभागस्य । पण्डितसार्वभौमो, मीमांसाकेसरी, वेदविशारदश्च, माघ कृष्णकादशी. वै. सं० २००२, काशी
२९-१-४६. (२) महामहोपाध्यायः हरिहरकृपालु द्विवेदी तर्कालङ्कारविद्यारत्नाकरविद्यानिधिप्रधानाचार्यपण्डितविभूषणमहामहा
ध्यापकविद्यासागरप्रभृतिभिरूपाधिभिर्विभूषितः।। (३) श्वेताम्बरजैनसम्प्रदायानुसारेण पर्वतिथिविचारनिर्णयो
ऽयं यथा श्रीमन्महामहोपाध्याय पं. श्रीचिन्नस्वामिशास्त्रिपादैर्महामहोपाध्यायपं. श्रीहरिहरकृपालुशर्मप्रभृतिश्च प्रदत्तः, स च प्राचीनजैनाचार्यसम्मतो जीतव्यवहारानुगुणो मीमांसापद्धत्या सुविमृष्ट इति तस्यैव श्वेताम्बरजैनसम्प्रदायानुयायिनामैहिकामुष्मिकश्रेयःसम्पादकत्वे निःसंशया वयं तमेवोपादेयं मन्महे । नारायणशास्त्री खिस्ते महामहोपाध्यायः साहित्याचार्यः, साहित्यवारिधिः, साहित्यवाचस्पतिः, काशिकराजकीयसंस्कृतमहाविद्यालयप्रधानाध्यापकः, सरस्वतीभवनाध्यक्षश्च । घासीटोला, बनारससिटी. ता. ७-३-४६ (४) श्वेताम्बरजैनसम्प्रदायानुसारेण पर्वतिथिवृद्धिक्षयविषये
प्राचीनार्वाचीनपक्षद्वयं सम्यगुपपाद्य पूर्वापरपोलोचनाभि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74