Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 48
________________ जयपताका] तदेवं स्थितेऽष्टम्यादिपर्वतिथेः शुद्धायाः पञ्चमीपूर्णिमाऽमावास्यादि पूर्वानन्तरपर्वरूपाया अनन्तराया वृद्धिक्षये परपूर्वतिथ्योरनुष्ठानसिद्धौ पर्वविधिशास्त्रस्य प्रामाण्यं सिध्यति तदेवं स्थिते एतत्पर्यवसितानुकूलं श्रीतुलाकृष्णाशास्त्रिव्यवस्थासम्वादि म०म० श्रीचिन्नस्वामिशास्त्रिकृतं व्यवस्थापनं सर्वैरपि जैनसम्प्रदायानुसरिद्भिः प्रमाणतया ग्राह्यं तदितरदप्रमाणतया हेयमिति परामृशति । पं. श्रीबालबोधमिश्रः, प्रधानाध्यापकः, वेदान्ताचार्यः गवर्नमेण्ट संस्कृतकॉलेज, काशी ता. ५-३-४६ । (१८) महामहोपाध्याय श्रीचिन्नस्वामिशास्त्रिवर्यैः सम्पादितमिदं व्यवस्थापत्रं पर्वतिथिवृद्धिक्षयविषयकम् ज्योतिश्शास्त्रप्रमाणितमिति सहर्ष सम्मनुते । पं. बलदेव मिश्रा, ज्योतिषाचार्यः, गवर्नमेण्ट सरस्वतीभवनरीसर्चकार्यसम्पादकः, काशी ता. १०-३-४६ (१९) महामहोपाध्यायचिन्नस्वामिशास्त्रिवर्यप्रदत्तमनेकैर्विद्वद्भि रनुमोदितमिदं पर्वतिथिवृद्धिक्षयविषयकव्यवस्थापत्रं ज्योतिधर्मशास्त्रप्रमाणितमिति समर्थयति श्रीअनूपमिश्रः, ज्योतिषाचार्यतीर्थः भूतपूर्वपुरातत्त्वान्वेषकः ज्योतिश्शास्त्रप्रधा नाध्यापकः, गवर्नमेण्टसंस्कृतकॉलेज, काशी, ९-३-४६ (२०) श्रीचिन्नस्वामिशास्त्री सुविमलविलसत्सर्वशास्त्रीयदृष्टिी मांसान्यायतत्या सुकृतिचयकृते यां व्यवस्थामकार्षीत् । दृष्ट्या तामद्य हृष्ट्वा "कथमपि कलहो, न क्षये पर्वतिथ्यामिथ्याव्याख्यातृभिः स्यादि"ति दृढमनसा जैनसङ्घ ब्रवीमि ॥१॥ इति फा० शु० सप्तमी रवी ता. १०-३-४६ श्रीभूपनारायणशास्त्री(झोपाख्यः) व्याकरणन्यायमीमांसासांख्ययोगवेदान्ताचार्यः साहित्यरत्नश्च काशिकराजकीयसंस्कृत (गवर्नमेण्टसं०) महाविद्यालयाध्यापकः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74