Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
(३४)
[शाखनच्छन्ति यथा तद्वदेव जैनसम्प्रदायरता अपि स्वस्वाभिलषितमैहिकमामुष्मिकं च फलं सम्पादयितुं स्वस्वसम्प्रदायादृतान्येव प्रमाणानि सामाचारी वाऽन्विष्यान्विष्य तत्र प्रवर्तन्त इति युक्ततरमेव । यतो ह्याचार्याणामेतादृशभक्तश्रद्धालुजनानुजिघृक्षयैव प्रवृत्तिः। तत्र च प्राचीनाचार्यप्रवर्तितानि बहूनि प्रमाणान्यवलम्ब्य तानि तानि कर्माणि जैनसङ्खः स्वस्वाचार्योपदिष्टमार्गानतिलअनेन स्वश्रेयसाय समनुष्ठितान्यासन् ।
तत्र मूर्धन्यं प्रमाणमेकं "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिनाम्ना प्रसिद्धिंगतैः प्राचीनजैनाचार्यैः प्रवर्तितम् । तत्राऽपि प्रमाणान्तरेष्विवैकमत्येनैकमेवार्थमभिसन्दधद्भिस्तैस्तैराचार्यवर्यैरनुशिष्टा जैनसङ्घाः स्वानि लोकोत्तराणि कर्माणि कुर्वन्त आसते स्म। परन्तु कस्माञ्चनाल्पीयसः कालादारभ्य प्रसिद्ध्या द्वयोजैनाचार्यवर्ययोः श्रीसागरानन्दसूरिश्रीविजयरामचन्द्रसूरिमहोदययोः पूर्वोदाहृतवचनार्थनिर्णये समजनि मतभेदः । जाते च तस्मिन् तत्तच्छिष्याः स्वस्वाचार्यग्राहितानान् स्वीकुर्वन्तः, तदनुसारेणैवाराधनादिकं कर्मान्वतिष्ठन् । तेनानुष्ठानद्वैविध्येसमुत्पन्ने तन्मूलकं जैनसङ्ग्रेषु परस्परं वैमत्यमपि प्रादुर्भवितुमारेभे । तच्च सङ्घहानिकरं मन्वानाः सङ्घहितैषिणः सङ्घान्तर्गता एव केचिन्महोदयाः उभयोरप्याचार्यवर्ययोर्मतैक्यं सम्पादयितुं प्रायतन्त । परं यदा ते तत् दुश्शकमपश्यन् तयोर्द्वयोराचार्ययोर्मतं गृहीत्वा तत्र युक्तायुक्तत्वविचारपूर्वकशास्त्रीयनिर्णयकरणाय मध्यस्थं कञ्चन न्ययोजयन् । तेन च मध्यस्थेन कृते निर्णयेऽपरिपूर्णतां बहून् दोषान् पूर्वापरविरोधैकपक्षपातित्वादिरूपान् यदाऽपश्यन् तदा तन्निर्णये समुत्पन्नाऽप्रामाण्यशङ्कास्ते तन्निर्णयपत्रं यथावद्विचार्य समुचितं शास्त्रीयं च निर्णयं दातुमस्मत्समीपं तदुपानयन् । अस्माभिश्च जैनागमान् प्राचीनतदीयाचार्यसम्मतिं जीतव्यवहारं च यथावत्परिशील्य मीमांसाशास्त्रानुसतया पद्धत्या सुविमृश्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74