Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 34
________________ जयपताका] (२५) नन्दसूरिसम्मतार्थोपष्टम्भकानि सन्ति बहूनि प्रमाणानि यायलम्बेनैव श्रीसागरानन्दसूरिभिः वचनस्यास्यैतादृशोऽर्थो वयेते, न स्वबुद्धिबलमात्रमवलम्ब्य । तेषु च कानिचित् तैमध्यस्थाव न प्रदर्शितानि । परं मध्यस्थेन स्वयमेव दृष्टानि । कानिचित्तैः प्रदर्शितानि । तान्यप्यप्रमाणान्येवेति सुदृढो मध्यस्थस्य विश्वास इति । एवं वदता मध्यस्थेन स्वाभिप्रायपोषकाणां लब्धप्रामाण्यपदवीकस्य कस्यापि ग्रन्थस्याप्रदर्शनेन प्रायस्सर्वेऽपि जैनसम्प्रदायीया वाङमया अप्रामाण्यकूपे पातिता न वेति जैनसङ्का एवोन्मीलितलोचना विवेचयन्तु ॥ किञ्च आचार्यश्रीसागरानन्दसूरिभिः "क्षये पूर्वा तिथिः कार्या" इत्यस्य पर्वतिथिमात्रविषयकत्वं यदुपवर्णितं तत्खण्डनाय प्रवृत्तो मध्यस्थः षष्ठविवादपदमध्ये एवं कथयति-"प्रकरणाच्चेदयं प्रविभागः पर्वतिथीनां प्राप्नोतीति चेदाचार्यश्रीसागरानन्दसूरयो मन्यन्ते तदा प्रकरणं नामातीव दुर्बलं प्रमाणं वाक्यार्थनिर्णय इति ब्रूमः" इति । तत् कियदज्ञानमूलकमिति अपलापो वा वस्तुस्थितेरिति विभावनीयम् । यतो "वाक्यात्प्रकरणाल्लिङ्गादौचित्यादर्थनिर्णयः" इत्यर्थनिर्णये प्रकरणस्यापि कारणत्वमुद्घोषयन्ति वाक्यार्थको विदाः । सैन्धवमानय इत्यादौ विना प्रकरणं कथं वाऽर्थस्य निर्णयश्शक्यते कर्तुम् ?, नेदं प्रकरणमस्मदभिप्रेतम् । किन्तु तायीकम् । तच्च श्रुतिलिङ्गाद्यपेक्षयाऽतिदुर्बलमिति चेत्-अहो! मीमांसकमूर्धन्यत्वमात्मनस्साधु प्रकटितम् । किं तत् स्वरूपत एव दुर्बलम्? उत पूर्वप्रमाणसमवाये?, यदि स्वरूपतः तर्हि कथं प्रयाजादीनां दर्शपूर्णमासाद्यङ्गत्वम् ? । 'समिधो यजति' 'आज्यभागी यजति' इत्यादिषु हि विधिषु इष्टविशेषाश्रवणात् समिद्यागे न भावयेत् इत्येतावन्मात्रोकौ किं भावयेदित्युत्पन्नायामाकांक्षायां प्रकरणसमर्पितयोरेव दर्शपूर्णमासयोरुद्देश्यत्वमङ्गीकृत्य तद्वाचकपदकल्पनया प्रधानवाक्येन वा सहैकवाक्यतादिकल्पनाद्वारा शा.ज.प. ४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74